Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहद्वत्तिः ।
॥३५३॥
अथ संस्थानद्वारमभिधित्सुराह--
'थिबुगागार जहन्नो वट्टो, उक्कोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥७०४॥
स्तिबुको बिन्दुरुच्यते, तदाकासे जघन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावइया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किञ्चिदायतः किमपि प्रदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, अग्निजीवमूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति ।। इति नियुक्तिगाथार्थः ।। ७०४ ॥
अथ भाष्यम्
पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ ७०५॥ इतर उत्कृष्टः, अवधिमत्स्वदेहानुवृत्त्याऽग्निजीवश्रेणिपरिक्षेपात् 'किश्चिदायतः' इति शेषः । शेषं सुगमम् ॥ ७०५ ।। अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयन्नाह
"तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥७०६॥
तप्र उडुकस्तस्येवाऽऽकारो यस्याऽसौ तपाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतव्यस्रो भवति । पल्लको धान्याधारभूतोऽत्रैव प्रतीतः, स चोर्ध्वायतः, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोद्यविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, तदाकारोऽवधिय॑न्तराणाम् । उभयतो विस्तीर्णचविनद्धमुखो मध्ये संकीर्णो ढकालक्षणाऽऽतोद्यविशेषो झल्लरी, तदाकारोऽवधिज्योतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यच्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् मूत्रमिति कृत्वा सपशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे त्ति' यवो यवनालकः, स च कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण
१स्तिवुकाकारो जघन्यो वृत्तः, उस्कृष्ट आयतः किञ्चित् । अजघन्या-ऽनुत्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ ७ ॥ २ गाथा ५८८ । ३ पनकः स्तिबुकाकारस्तेन जघन्यावधिस्तदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवृत्या ॥ ७०५॥ तप्राकारः पटक-पटहक-मल्लरी-मृदा-पुष्प-यवः । तिर्यग-मनुजेष्ववधिर्नानाविधसंस्थितो भणितः ॥ ७०६॥ ५५.छ. 'री प' ।
॥३५॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202