Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 153
________________ विशेषा० ॥३५॥ तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूच च तत्पतिपादयबाह एएसिमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमगा उड्ढे च सकप्पथूभाई ॥ ६९८ ॥ एतेषां शक्रादीनामसंख्येयास्तिर्यग द्वीपाश्च जम्बूद्वीपादयः, समुद्राश्च लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप-समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपयुपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः। तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः; आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ ६९८ ।। तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानी सामान्यतस्तद्वर्जदेवानां प्रतिपादयन्नाह संखेजजोयणा खलु देवाणं अहसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ ६९९ ॥ देवानामर्धसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह- 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति-व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क-वैमानिकानां तु जघन्य भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापचकार्थः ॥ ६९९ ।। अथानन्तरगाथाभाष्यम् वैमाणियवज्जाणं सामण्णमिणं तहावि उ विसेसो.। उड्ढमहे तिरियम्मि य संठाणवसेण विण्णेओ॥७००॥ - इदं च "संखेजजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्जानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् । तथापि तूर्ध्वम् , अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना-अधिकावधिलक्षणो यो विशेषः स इहैव 'तेप्पागारे पल्लग-पडहग- इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति ॥ ७००॥ 'अथ यदुक्तम्- 'जहण्णय पण्णवीसं तु तद् विवृण्वन् , अनुक्तं च ज्योतिष्क-वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह १ एतेषामसंख्येयास्तिर्यग् द्वीपाश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्वं च स्वकल्पस्तूपादीन् ॥ ६९८ ॥ २ संख्येययोजनानि खलु देवानामर्धसागर ऊने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ ६९९ ॥ ३ वैमानिकबर्जानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमस्तिर्यक् च संस्थानवशेन विज्ञेयः ॥ ७.०॥ ४ गाथा ६९९ । ५ गाथा ७०६ । H Ha||३५१॥ JainEducationa.Intemati For Personal and Private Use Only untainelibrary.org

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202