________________
विशेषा०
॥३५॥
तदेवमधो वैमानिकावधेः क्षेत्रप्रमाणं प्रतिपाद्य तिर्यगूच च तत्पतिपादयबाह
एएसिमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमगा उड्ढे च सकप्पथूभाई ॥ ६९८ ॥
एतेषां शक्रादीनामसंख्येयास्तिर्यग द्वीपाश्च जम्बूद्वीपादयः, समुद्राश्च लवणसागरादयः 'क्षेत्रतोऽवधिपरिच्छेद्यतयाऽवसेयाः' इति वाक्यशेषः । तदेव द्वीप-समुद्रासंख्येयकं बहुतरकं पश्यन्ति, उपरिमा एवोपरिमका उपयुपरिवर्तिदेवलोकनिवासिनो देवा इत्यर्थः। तथा, ऊर्ध्वं स्वकल्पस्तूपादेव यावत् क्षेत्रं ते पश्यन्ति, न परतः; आदिशब्दाद् ध्वजादिपरिग्रह इति ॥ ६९८ ।।
तदेवं वैमानिकानामवधिक्षेत्रमानमभिधायेदानी सामान्यतस्तद्वर्जदेवानां प्रतिपादयन्नाह
संखेजजोयणा खलु देवाणं अहसागरे ऊणे । तेण परमसंखेज्जा जहण्णयं पण्णवीसं तु ॥ ६९९ ॥
देवानामर्धसागरोपमे न्यूने आयुषि सति संख्येयानि योजनान्यवधिपरिच्छेद्यं क्षेत्रमवसेयम् । ततः परं संपूर्णार्धसागरोपमादिके आयुषि सति पुनरसंख्येयानि योजनान्यवधिक्षेत्रमवगन्तव्यम् । उक्तमुत्कृष्टमवधिक्षेत्रम् । अथ जघन्यमाह- 'जहण्णमित्यादि' दशवर्षसहस्रस्थितीनां भवनपति-व्यन्तराणां जघन्यमवधिक्षेत्रं पञ्चविंशतियोजनानि, ज्योतिष्क-वैमानिकानां तु जघन्य भाष्यकार एव वक्ष्यति ॥ इति नियुक्तिगाथापचकार्थः ॥ ६९९ ।।
अथानन्तरगाथाभाष्यम्
वैमाणियवज्जाणं सामण्णमिणं तहावि उ विसेसो.। उड्ढमहे तिरियम्मि य संठाणवसेण विण्णेओ॥७००॥ - इदं च "संखेजजोयणा खलु' इत्यादिकमवधिक्षेत्रप्रमाणं वैमानिकवर्जानां भवनपत्यादिदेवानां सामान्यमविशेषेण द्रष्टव्यम् । तथापि तूर्ध्वम् , अधः, तिर्यक् च तेषां देवानां कयाचिद् दिशा हीना-अधिकावधिलक्षणो यो विशेषः स इहैव 'तेप्पागारे पल्लग-पडहग- इत्यादिवक्ष्यमाणावधिक्षेत्रसंस्थानवशेन विज्ञेय इति ॥ ७००॥ 'अथ यदुक्तम्- 'जहण्णय पण्णवीसं तु तद् विवृण्वन् , अनुक्तं च ज्योतिष्क-वैमानिकानां जघन्यमवधिक्षेत्रमभिधित्सुराह
१ एतेषामसंख्येयास्तिर्यग् द्वीपाश्च सागराश्चैव । बहुकतरमुपरिमका ऊर्वं च स्वकल्पस्तूपादीन् ॥ ६९८ ॥ २ संख्येययोजनानि खलु देवानामर्धसागर ऊने । तेन परमसंख्येयानि जघन्यकं पञ्चविंशतिस्तु ॥ ६९९ ॥ ३ वैमानिकबर्जानां सामान्यमिदं तथापि तु विशेषः । ऊर्ध्वमस्तिर्यक् च संस्थानवशेन विज्ञेयः ॥ ७.०॥ ४ गाथा ६९९ । ५ गाथा ७०६ ।
H
Ha||३५१॥
JainEducationa.Intemati
For Personal and Private Use Only
untainelibrary.org