SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । विशेषा० ॥३५०॥ मित्यादि' यद् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यजघन्यं तत्पति तदाश्रित्योक्तमित्यदोषः। इदमुक्तं भवति- सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं, तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्रं स्वस्थान उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजघन्यमुक्तम् ॥ इति गाथार्थः ।। ६९४ ॥ अथ देवानां भवप्रत्ययावधिमाहसक्की-साणा पढम, दोच्चं च सणंकुमार-माहिंदा । तच्चं च बंभ-लंतग सुक्क-सहस्सार य चउत्थि ॥६९५॥ आणय-पाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरण-च्चुय ओहिण्णाणेण पासंति ॥ ६९६ ॥ छट्टिं हेठिम-मज्झिमगेविज्जा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥६९७॥ तत्र शक्रश्चेशानश्च शके-शानौ सौधर्मे-शानकल्पदेवेन्द्रौ, तदुपलक्षिताश्चेह सौधर्मे-शानकल्पनिवासिनः सामानिकादयो देवा अपि गृह्यन्ते; ते ह्यवधिना प्रथमा रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति। तथा, द्वितीयां च 'पृथिवीम्' इत्यग्रतः संबध्यते, सनत्कुमार-माहेन्द्रावपि तृतीय-चतुर्थकल्पदेवाधिपौ, अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन्ते, | ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति । तथा, तृतीयां च पृथिवीं ब्रह्मलोक-लान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः सा मानिकादयः पश्यन्ति । तथा, शुक्र-सहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाश्चतुर्थी पृथिवीं पश्यन्तीति । तथा, आनत-प्राणतयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथिवीम् , तामेव चाऽऽरणा-ऽच्युतदेवलोकयोः संवन्धिनो देवा विशुद्धतरां बहुपर्यायां चावधिज्ञानेन पश्यन्ति; स्वरूपकथनमेवेदं न तु व्यवच्छेदकम् , अवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद् व्यवच्छेद्याभावादिति । लोकपुरुषग्रीवास्थाने भवानि विमानानि ग्रैवेयकाणिः तत्राऽधस्त्य-मध्यमवेयकविमानवासिनो देवा अधस्त्य-मध्यमवेयका उच्यन्ते ते तमामभाभिधानां षष्ठीं पृथिवीं पश्यन्ति । तथा, सप्तमी च पृथिवीमुपरितनयका देवाः पश्यन्ति । तथा, संभिन्ना चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्त्यनुत्तरविमानवासिनो देवाः । एष क्षेत्रतो नारकाणां देवानां च भवप्रत्ययावधेविषय उक्तः । एतदनुसारतो द्रव्यादयोऽप्यवसेयाः ॥६९५॥६९६॥६९७।। , शक्रे-शानौ प्रथमां, द्वितीयां च सनत्कुमार-माहेन्द्रौ । तृतीयां च ब्रह्म-लान्तको शुक्र सहस्रारौ च चतुर्थीम् ॥ ६९५ ॥ आनत-प्राणतकरूपे देवाः पश्यन्ति पञ्चमी पृथिवीम् । सामेवाऽऽरणा-ऽच्युताववधिज्ञानेन पश्यतः ॥ १९ ॥ पष्टीमधस्त्य-मध्यमवेयकाः, सप्तमी चोपरितनाः । संभिन्नलोकनाडी पश्यन्त्यनुत्तरा देवाः ॥ ६९७ ॥ २श. 'पिच्छति' POONSOR ॥३५॥ For Personal and Prevate Une Grey
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy