SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा० ॥३४९॥ गतार्थे एव, नवरं भणितः क्षायोपशमिकोऽवधिः । अथ भवप्रत्ययो भण्यते । 'स चरिमपुढवीए त्ति' स चरमायां सप्तमपृथिव्यामुत्कृष्टतो गव्यूतं, प्रथमायां तु योजनं भवतीति ।। ६९१ ॥ ६९२ ॥ तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । अथ तदव रत्नप्रभादिपृथिवीविभागनाह 'चत्तारि गाउयाई, अडुट्ठाई, तिगाउयं चेव । अड्ढाइजा, दोणि य, दिवड्ढमेगं च नरएसु ॥६९३॥ इह रत्नप्रभायां नरकेषु नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्कराप्रभायां त्वधं चतुर्थस्य येषु तान्यर्धचतुर्थानि गव्य॒तानि । वालुकाप्रभायां गव्यूतत्रयम् । पङ्कप्रभायामधं तृतीयस्य येषु तान्यर्धतृतीयानि गव्यूतानि । धूमपभायां द्वे | गव्यते । तमायां द्वितीयस्यार्धं यत्र तद् द्यधं गव्यूतम् । सप्तमपृथिव्यां पुनर्नरकेषु नारकाणामेकं गव्यूतमुत्कृष्टमवधिक्षेत्रप्रमाणं भवति ॥ इति नियुक्तिगाथार्थः ॥ ६९३ ॥ सप्तस्वपि पृथिवीषु प्रत्येकमुत्कृष्टादवधिक्षेत्रप्रमाणादर्धगव्यूतेऽपनीते जघन्यमवधिक्षेत्रप्रमाणं भवति । तच्च नियुक्तिकृता नोक्तम् , अतो भाष्यकारः प्राह अडुटुगाइयाइं जहण्णयं अद्धगाउयंताई । जं गाउयं ति भणियं तं पइ उक्कोसयजहणं ॥ ६९४ ॥ अध्युष्टानि सार्धानि त्रीणि गव्यूतानि रत्नप्रभायां जघन्यमवधिक्षेत्रप्रमाणम् । शर्करामभायां त्रीणि गव्यूतानि । वालुकाप्रभायामतृतीयानि । पङ्कप्रभायां दे । धूमप्रभायां सार्धम् । तमायां गव्यूतम् । सप्तमपृथिव्यामर्धगव्यूतं जघन्यमवधिक्षेत्रप्रमाणम् । उक्तं च- "रैयणप्पभापुढवीनेरइया णं भंते ! केवइयं खेत्तं ओहिणा जानंति, पासंति । गोयमा! जहणेणं अद्भुट्ठाई गाउयाई, उक्कोसेणं चत्तारि । एवं जाव महातमपुढवीनेरइयाणं पुच्छा । गोयमा ! जहन्नेणं अद्धगाउयं, उक्कोसेणं गाउयं ति ।" आह- यद्येवम् , अर्धगव्यूतं जघन्यमवधिक्षेत्रम् , तर्हि 'गाउय जहण्णमोही नरएसु य' इत्येतद् व्याइन्यते, इत्याह- 'जं गाउय चत्वारि गव्यूतानि, साधत्रीणि, निगव्यूतं चैव । अर्धतृतीयानि, द्वेच, साथैकमेकं च नरकेष ॥ ६९३ ॥ २ सार्धन्यादिकानि जघन्यमर्धगप्यूतान्तानि । यद् गब्यूतमिति भणितं तत् प्रत्युत्कृष्टजघन्यम् ॥ ६९४ ॥ ३ रत्नप्रभावृथिवीनैरयिका भगवन् ! कियत्त क्षेत्रमवाधिना जानन्ति, पश्यन्ति ।। गौतम ! जघन्येन साधन्त्रीणि गब्यूतानि, उत्कर्षेण चत्वारि । एवं यावद् | महातमापृथिवीनरविकाणां पृच्छा । गौतम ! जघन्येनार्धगम्यूतम्, उत्कर्षण गव्यूतमिति । ४ गाथा ६९० । ॥३४९॥ JanEducationaintama For Personal and Present
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy