________________
विशेषा
॥३४८॥
'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥६८९॥
परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवलज्ञानसूर्यस्य युदयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंबन्धी क्षायोपशमिकोऽवधिः । इदानी तिरश्चाममुं वक्ष्यामि ॥ इति गाथाचतुप्रयार्थः ॥ ६८९॥
यथाप्रतिज्ञातमेवाह
आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥ ६९० ॥
आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-ऽऽहारक-तैजसद्रव्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां । लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः खयमभ्यूह्या इति । तदेवं यदुक्तम्'काई भवपच्चइया खओवसमियाओ काओ वि' तत्र क्षायोपशमिकप्रकृतयोऽभिहिताः । अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नारकाणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुन रकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजनं पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गन्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः । इति नियुक्तिगाथार्थः ॥ ६९० ॥
अत्र भाष्यम्"ओरालिय-वेउव्विय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ ६९१ ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ ६९२ ॥
, परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमात्रेण । मनुजक्षायोपशमिको भणितः, तिरश्च वक्ष्यामि ॥ ६८९॥ २ आहार सैजसतम्भ उत्कर्षेण तिर्यग्योनिषु । गव्यूतं जघन्यमवधिनरकेषु च योजनमुत्कृष्टम् ॥ १९ ॥ ३ गाथा ५६८ । भीदारिक-वैक्रिया-हारक-लैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ १९॥ भणितः क्षायोपशमिको भवप्रत्ययितः स चरमपृथिग्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं भवति ॥ ६९२ ॥
॥३४८॥
For Pearl Pe Use