SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः। ॥३४७ पश्यति । कियन्तम् ?, इत्याह - समा उत्सपिण्य-वसर्पिणीः 'असंख्येयाः' इति लिङ्गव्यत्ययेनाऽत्रापि संबध्यते । द्रव्यं तु सर्व रूपं पश्यति । विशेषाभावं तु तेषामेव रूपिद्रव्याणां पर्यायान् वक्ष्यमाणंसंख्यान् जानाति ।। ६८६ ।। __ अथ प्रेरकः प्राह खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं ? । तं चिय संखाइयाइं लोगमित्ताइं निद्दिठं ॥६८७॥ आह- ननु यदग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितं तद् नियुक्तिकृता 'सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिजंसु' इत्यादिगाथायां प्रागेवोक्तं प्रतिपादितम् , किमर्थं पुनरप्यत्र "खेत्तोवमियं अगणिजीवा' इत्यनेन गाथावयवेन भणितम् । अत्रोत्तरमाह- 'तं चियेत्यादि' तदेव प्रागुक्तमग्निजीवैः क्षेत्रोपमानं क्षेत्रोपमितमिह 'परमोहि असंखेज्जा' इत्यादिवचनादलोके लोकमात्राणि संख्यातीतानि खण्डानि भवन्ति, इति नियतमानतया निर्दिष्टं, न पुनरपूर्वतयेति भावः । इह 'रूंवगयं लहइ सव्वं' इत्येतद् भाष्यकृता 'देव्वं सव्वं रूवं पासई' इति वचनादवधेव्यतो विषयप्रतिपादनपरं व्याख्यातम् ।। ६८७ ॥ ___अथ 'एंगपएसोगाढ' इत्यादिनैव द्रव्यतोऽवधिविषयस्योक्तत्वात् क्षेत्र-कालयोरेव विशेषणत्वलक्षणेन प्रकारान्तरेण व्याख्यातुमाह अहवा दव्वं भणियं इह रूबगयं ति खेत्त-कालदुगं । रूवाणुगयं पेच्छइ न य तं चिय तं जओऽमुत्तं ॥६८८॥ _ अथवा 'एंगपएसोगाढं परमोही लहइ कम्मगसरीरं' इत्यादिनैवाऽवधिविषयभूतं द्रव्यं भणितम् , अतो 'रूपगतं लभते सर्व इत्येतदवधेद्रव्यतो विषयाभिधायकतया न व्याख्यायते । तर्हि कथमिदं नीयते ? इत्याह- 'इहेत्यादि' इह यदसंख्येयलोकखण्डासंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं क्षेत्र-कालद्वयमवधिविषयत्वेनोक्तम् , तद् 'रूपगतं' इति रूपगतं लभते सर्वम् । कोऽर्थः १,'इत्याह- रूपानुगतं तत्स्थरूपिद्रव्याणां दर्शनाद् रूपिद्रव्यसंबद्धमेव प्रेक्षते, न पुनस्तदेव क्षेत्र-कालद्वयं केवलं पश्यति, यतस्तदमूर्तम् , मूर्तविषयश्चावधिरिति ॥ ६८८ ॥ अथ विनेयानुग्रहार्थं प्रासङ्गिक किश्चिदभिधित्सुर्वक्ष्यमाणं च संबन्धयितुमाहK १ क. ग. 'संख्येया'। २ क्षेत्रोपमानमुक्तं यदग्निजीवैः किं पुनर्भणितम् ! । तदेव संख्यातीतानि लोकमात्राणि निर्दिष्टम् ॥ ६८७॥ ३ गाथा ५९८ । ४ गाथा ६८५ । ५ गाथा ६८६ । ६ गाथा ६७५ । ७ अथवा ग्यं भणितमिह रूपगतमिति क्षेत्र-कालद्विकम् । रूपानुगतं प्रेक्षते न च तदेव तद् यतोऽमूर्तम् ॥१८॥ ॥३४७॥ Jan Education Inter For Personal and Private Use Only www.jaineltrary.ary
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy