________________
विशेषा०
॥३४६॥
PAROIDIOPPERS
नियममेव दर्शयति- ‘एवं चियेत्यादि' एतदेव परमाण्वादिकं रूपगतं, नातः परं किमपि रूपगतमस्ति ॥ इति गाथानवकार्थः ॥ ६८३ ॥ ६८४ ॥
बृहद्वत्तिः। तदेवं परमावधेद्रव्यतो विषय उक्तः, अथ क्षेत्र-कालौ तद्विषयभूतौ माह
परमोहि असंखेज्जा लोगंमित्ता समा असंखिज्जा । रूवगयं लहइ सव्वं खेत्तोवमियं अगणिजीरा ॥६८५॥
परमश्वासाववधिश्च परमावधिः क्षेत्रतोऽसंख्येयानि लोकमात्राणि 'खण्डानि' इति गम्यते, 'लभते' इति संवन्धः, कालतस्तु समा उत्सर्पिण्य-वसर्पिणीरसंख्येया एव लभतेः द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्वं परमाण्वादिभेदभिन्न पुद्गलास्तिकायमित्यर्थः, लभते । पश्यति । भावतस्त्वसंख्येयांस्तत्पर्यायानिति । यदुक्तम्- असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसंख्येयकं न्यूनमधिकं च संभवेत् , अतो नियमार्थमाह-उपमानमुपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवाः। इदमुक्तं भवति- उत्कृष्टावधेविषयत्वेन क्षेत्रतो येऽसंख्यया लोकाः प्रोक्तास्ते प्रागभिहितवावगाहनाव्यवस्थापितोत्कृष्टसंख्येयसूक्ष्मबादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समवसेया इति ।
आह- ननु 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितमेव, इति किमर्थं पुनरत्राऽभिहितम् । अत्रोच्यतेविस्मरणशीलस्य प्रेयमिदं, प्रतिविहितत्वात् । अथवा, अत्र 'रूपगतं' इत्येतत् प्रस्तुतक्षेत्र-कालयविशेषणतया व्याख्यायते, तद्यथालोकमात्राऽसंख्येयखण्डा-ऽसंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं प्रस्तुतक्षेत्र-कालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते, न तु केवलं, क्षेत्रकालयोरमूर्तत्वात् , अवधेस्तु रूपिद्रव्यविषयत्वात् ॥ इति नियुक्तिगाथार्थः ॥ ६८५ ॥
अथ भाष्यम्
खित्तमसंखेज्जाइं लोगसमाई समाउ कालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ ६८६ ॥ क्षेत्रमवधिः पश्यति । कियत् ?, इत्याह- असंख्येयानि लोकसमानि लोकतुल्यानि 'खण्डानि' इति गम्यते । कालं चासौ , परमावधिरसंख्येयानि कोकमात्राणि समा असंख्येयाः । रूपगतं लभते सर्व क्षेत्रोपमितमग्निजीवाः ॥ ६८५ ॥
॥३४६॥ २ क्षेत्रमसंख्येयानि लोकसमानि समाः कालं च । द्रव्यं सर्वं रूपं पश्यति तेषां च पर्यायान् ॥ ६८६ ॥