Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदत्तिः ।
विशेषा० ॥३५०॥
मित्यादि' यद् गव्यूतं जघन्यमुक्तं तदुत्कृष्टमध्ये यजघन्यं तत्पति तदाश्रित्योक्तमित्यदोषः। इदमुक्तं भवति- सप्तस्वपि पृथिवीषु यद् गव्यूतचतुष्टयादिकमुत्कृष्टमवधिक्षेत्रं, तन्मध्ये सप्तमपृथिवीनारकाणां गव्यूतलक्षणमवधिक्षेत्रं स्वस्थान उत्कृष्टमपि शेषपृथिव्युत्कृष्टापेक्षया सर्वस्तोकत्वाजघन्यमुक्तम् ॥ इति गाथार्थः ।। ६९४ ॥
अथ देवानां भवप्रत्ययावधिमाहसक्की-साणा पढम, दोच्चं च सणंकुमार-माहिंदा । तच्चं च बंभ-लंतग सुक्क-सहस्सार य चउत्थि ॥६९५॥ आणय-पाणयकप्पे देवा पासंति पंचमि पुढविं । तं चेव आरण-च्चुय ओहिण्णाणेण पासंति ॥ ६९६ ॥
छट्टिं हेठिम-मज्झिमगेविज्जा सत्तमि च उवरिल्ला । संभिण्णलोगनालिं पासंति अणुत्तरा देवा ॥६९७॥ तत्र शक्रश्चेशानश्च शके-शानौ सौधर्मे-शानकल्पदेवेन्द्रौ, तदुपलक्षिताश्चेह सौधर्मे-शानकल्पनिवासिनः सामानिकादयो देवा अपि गृह्यन्ते; ते ह्यवधिना प्रथमा रत्नप्रभाभिधानां पृथिवीं 'पश्यन्ति' इति क्रियां द्वितीयगाथायां वक्ष्यति। तथा, द्वितीयां च 'पृथिवीम्' इत्यग्रतः संबध्यते, सनत्कुमार-माहेन्द्रावपि तृतीय-चतुर्थकल्पदेवाधिपौ, अत्रापि च तदुपलक्षितास्तत्कल्पनिवासिनः सामानिकादयो देवाः परिगृह्यन्ते, | ते हि द्वितीयां पृथिवीमवधिना पश्यन्ति । तथा, तृतीयां च पृथिवीं ब्रह्मलोक-लान्तकदेवेन्द्रोपलक्षितास्तत्कल्पनिवासिनो देवाः सा
मानिकादयः पश्यन्ति । तथा, शुक्र-सहस्रारसुरेन्द्रोपलक्षितास्तत्कल्पवासिनोऽन्येऽपि सामानिकादयो देवाश्चतुर्थी पृथिवीं पश्यन्तीति । तथा, आनत-प्राणतयोः संबन्धिनो देवाः पश्यन्ति पञ्चमी पृथिवीम् , तामेव चाऽऽरणा-ऽच्युतदेवलोकयोः संवन्धिनो देवा विशुद्धतरां बहुपर्यायां चावधिज्ञानेन पश्यन्ति; स्वरूपकथनमेवेदं न तु व्यवच्छेदकम् , अवधिज्ञानस्यैवेह विचारयितुं प्रस्तुतत्वाद् व्यवच्छेद्याभावादिति । लोकपुरुषग्रीवास्थाने भवानि विमानानि ग्रैवेयकाणिः तत्राऽधस्त्य-मध्यमवेयकविमानवासिनो देवा अधस्त्य-मध्यमवेयका उच्यन्ते ते तमामभाभिधानां षष्ठीं पृथिवीं पश्यन्ति । तथा, सप्तमी च पृथिवीमुपरितनयका देवाः पश्यन्ति । तथा, संभिन्ना चतसृष्वपि दिक्षु स्वज्ञानेन व्याप्तां कन्याचोलकसंस्थानां लोकनाडीमवधिना पश्यन्त्यनुत्तरविमानवासिनो देवाः । एष क्षेत्रतो नारकाणां देवानां च भवप्रत्ययावधेविषय उक्तः । एतदनुसारतो द्रव्यादयोऽप्यवसेयाः ॥६९५॥६९६॥६९७।।
, शक्रे-शानौ प्रथमां, द्वितीयां च सनत्कुमार-माहेन्द्रौ । तृतीयां च ब्रह्म-लान्तको शुक्र सहस्रारौ च चतुर्थीम् ॥ ६९५ ॥
आनत-प्राणतकरूपे देवाः पश्यन्ति पञ्चमी पृथिवीम् । सामेवाऽऽरणा-ऽच्युताववधिज्ञानेन पश्यतः ॥ १९ ॥ पष्टीमधस्त्य-मध्यमवेयकाः, सप्तमी चोपरितनाः । संभिन्नलोकनाडी पश्यन्त्यनुत्तरा देवाः ॥ ६९७ ॥ २श. 'पिच्छति'
POONSOR
॥३५॥
For Personal and Prevate Une Grey
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202