Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वत्तिः ।
विशेषा०
॥३४९॥
गतार्थे एव, नवरं भणितः क्षायोपशमिकोऽवधिः । अथ भवप्रत्ययो भण्यते । 'स चरिमपुढवीए त्ति' स चरमायां सप्तमपृथिव्यामुत्कृष्टतो गव्यूतं, प्रथमायां तु योजनं भवतीति ।। ६९१ ॥ ६९२ ॥
तदेवं सामान्येन नारकजातिमधिकृत्याभिहितमुत्कृष्टमवधिक्षेत्रप्रमाणम् । अथ तदव रत्नप्रभादिपृथिवीविभागनाह
'चत्तारि गाउयाई, अडुट्ठाई, तिगाउयं चेव । अड्ढाइजा, दोणि य, दिवड्ढमेगं च नरएसु ॥६९३॥
इह रत्नप्रभायां नरकेषु नरकावासेषु नारकाणां चत्वारि गव्यूतान्युत्कृष्टमवधिक्षेत्रप्रमाणं भवति । शर्कराप्रभायां त्वधं चतुर्थस्य येषु तान्यर्धचतुर्थानि गव्य॒तानि । वालुकाप्रभायां गव्यूतत्रयम् । पङ्कप्रभायामधं तृतीयस्य येषु तान्यर्धतृतीयानि गव्यूतानि । धूमपभायां द्वे | गव्यते । तमायां द्वितीयस्यार्धं यत्र तद् द्यधं गव्यूतम् । सप्तमपृथिव्यां पुनर्नरकेषु नारकाणामेकं गव्यूतमुत्कृष्टमवधिक्षेत्रप्रमाणं भवति ॥ इति नियुक्तिगाथार्थः ॥ ६९३ ॥
सप्तस्वपि पृथिवीषु प्रत्येकमुत्कृष्टादवधिक्षेत्रप्रमाणादर्धगव्यूतेऽपनीते जघन्यमवधिक्षेत्रप्रमाणं भवति । तच्च नियुक्तिकृता नोक्तम् , अतो भाष्यकारः प्राह
अडुटुगाइयाइं जहण्णयं अद्धगाउयंताई । जं गाउयं ति भणियं तं पइ उक्कोसयजहणं ॥ ६९४ ॥
अध्युष्टानि सार्धानि त्रीणि गव्यूतानि रत्नप्रभायां जघन्यमवधिक्षेत्रप्रमाणम् । शर्करामभायां त्रीणि गव्यूतानि । वालुकाप्रभायामतृतीयानि । पङ्कप्रभायां दे । धूमप्रभायां सार्धम् । तमायां गव्यूतम् । सप्तमपृथिव्यामर्धगव्यूतं जघन्यमवधिक्षेत्रप्रमाणम् । उक्तं च- "रैयणप्पभापुढवीनेरइया णं भंते ! केवइयं खेत्तं ओहिणा जानंति, पासंति । गोयमा! जहणेणं अद्भुट्ठाई गाउयाई, उक्कोसेणं चत्तारि । एवं जाव महातमपुढवीनेरइयाणं पुच्छा । गोयमा ! जहन्नेणं अद्धगाउयं, उक्कोसेणं गाउयं ति ।" आह- यद्येवम् , अर्धगव्यूतं जघन्यमवधिक्षेत्रम् , तर्हि 'गाउय जहण्णमोही नरएसु य' इत्येतद् व्याइन्यते, इत्याह- 'जं गाउय
चत्वारि गव्यूतानि, साधत्रीणि, निगव्यूतं चैव । अर्धतृतीयानि, द्वेच, साथैकमेकं च नरकेष ॥ ६९३ ॥
२ सार्धन्यादिकानि जघन्यमर्धगप्यूतान्तानि । यद् गब्यूतमिति भणितं तत् प्रत्युत्कृष्टजघन्यम् ॥ ६९४ ॥ ३ रत्नप्रभावृथिवीनैरयिका भगवन् ! कियत्त क्षेत्रमवाधिना जानन्ति, पश्यन्ति ।। गौतम ! जघन्येन साधन्त्रीणि गब्यूतानि, उत्कर्षेण चत्वारि । एवं यावद् | महातमापृथिवीनरविकाणां पृच्छा । गौतम ! जघन्येनार्धगम्यूतम्, उत्कर्षण गव्यूतमिति । ४ गाथा ६९० ।
॥३४९॥
JanEducationaintama
For Personal and Present
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202