Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 156
________________ विशेषा० ॥३५४॥ कन्यापरिधानेन सह सीवितो भवति, येन परिधानं न खसति; कन्यानां च मस्तकसत्कपक्षेणाऽयं प्रक्षिप्यते । अयं चोर्ध्वः 'सरकञ्चुक' इति व्यपदिश्यते; एतदाकारोऽवधिरनुत्तरसुराणां भवति । तिर्यग्-मनुष्येषु पुनरवधिर्नानाविधसंस्थानो भणितः। यथा हि स्वयम्भूरमणसमुद्रमत्स्याः सर्वैरप्याकारैः समये भणिताः, तथा तिर्यग्-मनुष्येष्ववधिरपि । किञ्च, स्वयम्भूरमणमत्स्यानां वलयाकारता निषिद्धा, तिर्यग्-मनुष्याणां पुनरवधिस्तदाकारोऽपि भवति ॥ इति नियुक्तिगाथार्थः ।। ७०६ ॥ भाष्यम् 'नेरइय-भवण-वणयर-जोइस-कप्पालयाणमोहिस्स । गेविजणुत्तराण य होंतागिईओ जहासंखं ॥७०७॥ एतास्तपादिसमानाकृतयो नारकाधवधेर्यथासंख्यं द्रष्टव्याः। तच्च यथासंख्यं दर्शितमेवेति ॥ ७०७॥ अथ तपादिखरूपं व्याचिख्यासुराहतेप्पेण समागारो तप्पागारो स चाययत्तंसो । उड्ढायओ य पल्लो उवरिं च स किंचि संखित्तो ॥७०८॥ नच्चायओ समो विय पडहो हिट्ठोवरि पईओ सो। चम्मावणद्वविच्छिण्णवलयरूवा य झल्लरिया ॥७०९॥ उड्ढायओ मुइंगो हेट्ठारंदो तहोवरिं तणुओ। पुप्फसिहावलिरइया चंगेरी पुप्फचंगेरी ॥ ७१०॥ जवनालउ त्ति भणिओ उब्भो सरकंचुओ कुमारीए । अह सव्वकालनियओ कायाइक्को वि सेसाणं ॥७११॥ गतार्था एव, नवरं 'अह सव्वकालत्यादि' अथ नारक-भवनपत्यादीनां, तिर्यग्-मनुष्याणां चावधिसंस्थाने विशेष उच्यते । कः पुनरसौ ?, इत्याह- सर्वकालनियतोऽवधिसंस्थानमाश्रित्याऽमीषां नारक-भवनपत्यादिदेवानाम् ; शेषाणां तिर्यग्-मनुष्याणां कादाचित्कोऽपि भवति । इदमुक्तं भवति- तपाद्याकारसमानतया यद् नारक-भवनपत्यादीनामवधेः संस्थानमुक्तम् , तदङ्गीकृत्य तेषा १ नैरयिक-भवन-व्यन्तर-ज्योतिः कल्ला-5ऽनतानामवधेः । अधेयका-अनुत्तराणां च भवन्त्याकृतयो यथासंख्यम् ॥ ७.७॥ २ तप्रेण समाकारस्तमाकारः स चाऽऽयतन्यत्रः । अवयितश्च पालक उपरि च स किंचित् संक्षिप्तः ॥ ७०८॥ नाऽस्यायतः समोऽपि च पटहोऽधस्तादुपरि प्रतीतः सः। चावनद्धविस्तीर्णवलयरूपा च शहरिका ॥ ७०९॥ अर्वायतो मृदङ्गोऽधस्ताद् विस्तीर्णस्तथोपरि तनुकः । पुष्पशिखावलिरचिता चलेरी पुष्पचक्रेरी ॥१०॥ यवनालक इति भणित अर्ध्वः सरकचुकः कुमार्याः । अथ सर्वकालनियतः कादाचित्कोऽपि शेषाणाम् ॥10॥ MaikoROOOLADKICHE REHREERRORIES P मसार PICS ॥३५४॥ RSSIOS A TARAine PAPPS

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202