Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 150
________________ विशेषा ॥३४८॥ 'परमोहिन्नाणविओ केवलमंतोमुहुत्तमित्तेण । मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि॥६८९॥ परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते । केवलज्ञानसूर्यस्य युदयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम् , अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति । तदेवं भणितो मनुष्यसंबन्धी क्षायोपशमिकोऽवधिः । इदानी तिरश्चाममुं वक्ष्यामि ॥ इति गाथाचतुप्रयार्थः ॥ ६८९॥ यथाप्रतिज्ञातमेवाह आहार-तेयलंभो उक्कोसेणं तिरिक्खजोणीसु । गाउय जहण्णमोही नरएसु य जोयणुक्कोसो ॥ ६९० ॥ आहारक-तैजसयोरुपलक्षणत्वाद् यान्यौदारिक-वैक्रिया-ऽऽहारक-तैजसद्रव्याणि, यानि च तदन्तरालेषु तदयोग्यानि द्रन्याणि तेषां । लाभः परिच्छेद उत्कृष्टतस्तिर्यग्योनिषु मत्स्यादिषु भवति । एतद्र्व्यानुसारेण क्षेत्र-काल-भावाः खयमभ्यूह्या इति । तदेवं यदुक्तम्'काई भवपच्चइया खओवसमियाओ काओ वि' तत्र क्षायोपशमिकप्रकृतयोऽभिहिताः । अथ भवप्रत्ययास्ताः प्रतिपाद्याः, ताश्च सुर-नारकाणां भवन्ति, तत्राल्पवक्तव्यत्वात् प्रथमं नारकाणामाह- 'गाउएत्यादि' नरकेषु पुन रकाणामुत्कृष्टोऽवधिः क्षेत्रतो योजनं पश्यति, जघन्यस्तु गव्यूतम् । तत्र योजनप्रमाणो रत्नप्रभायां, गन्यूतमानस्तु सप्तमपृथिव्यां द्रष्टव्यः । इति नियुक्तिगाथार्थः ॥ ६९० ॥ अत्र भाष्यम्"ओरालिय-वेउव्विय-आहारग-तेयगाइं तिरिएसु । उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु ॥ ६९१ ॥ भणिओ खओवसमिओ भवपच्चइओस चरिमपुढवीए । गाउयमुक्कोसेणं पढमाए जोयणं होइ ॥ ६९२ ॥ , परमावधिज्ञानविदा केवलमन्तर्मुहूर्तमात्रेण । मनुजक्षायोपशमिको भणितः, तिरश्च वक्ष्यामि ॥ ६८९॥ २ आहार सैजसतम्भ उत्कर्षेण तिर्यग्योनिषु । गव्यूतं जघन्यमवधिनरकेषु च योजनमुत्कृष्टम् ॥ १९ ॥ ३ गाथा ५६८ । भीदारिक-वैक्रिया-हारक-लैजसानि तिर्यक्षु । उत्कर्षेण प्रेक्षते यानि च तदन्तरालेषु ॥ १९॥ भणितः क्षायोपशमिको भवप्रत्ययितः स चरमपृथिग्याम् । गन्यूतमुत्कर्षेण प्रथमायां योजनं भवति ॥ ६९२ ॥ ॥३४८॥ For Pearl Pe Use

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202