Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 148
________________ विशेषा० ॥३४६॥ PAROIDIOPPERS नियममेव दर्शयति- ‘एवं चियेत्यादि' एतदेव परमाण्वादिकं रूपगतं, नातः परं किमपि रूपगतमस्ति ॥ इति गाथानवकार्थः ॥ ६८३ ॥ ६८४ ॥ बृहद्वत्तिः। तदेवं परमावधेद्रव्यतो विषय उक्तः, अथ क्षेत्र-कालौ तद्विषयभूतौ माह परमोहि असंखेज्जा लोगंमित्ता समा असंखिज्जा । रूवगयं लहइ सव्वं खेत्तोवमियं अगणिजीरा ॥६८५॥ परमश्वासाववधिश्च परमावधिः क्षेत्रतोऽसंख्येयानि लोकमात्राणि 'खण्डानि' इति गम्यते, 'लभते' इति संवन्धः, कालतस्तु समा उत्सर्पिण्य-वसर्पिणीरसंख्येया एव लभतेः द्रव्यतस्तु रूपगतं मूर्तद्रव्यजातं सर्वं परमाण्वादिभेदभिन्न पुद्गलास्तिकायमित्यर्थः, लभते । पश्यति । भावतस्त्वसंख्येयांस्तत्पर्यायानिति । यदुक्तम्- असंख्येयानि लोकमात्राणि खण्डानि परमावधिः पश्यतीति, तदसंख्येयकं न्यूनमधिकं च संभवेत् , अतो नियमार्थमाह-उपमानमुपमितं, भावे निष्ठाप्रत्ययः, क्षेत्रस्योपमितं क्षेत्रोपमितं प्रागभिहिता एवाग्निजीवाः। इदमुक्तं भवति- उत्कृष्टावधेविषयत्वेन क्षेत्रतो येऽसंख्यया लोकाः प्रोक्तास्ते प्रागभिहितवावगाहनाव्यवस्थापितोत्कृष्टसंख्येयसूक्ष्मबादराग्निजीवसूच्या परमावधिमतो जीवस्य सर्वतो भ्रम्यमाणया यत्प्रमाणं क्षेत्रं व्याप्यते तत्प्रमाणाः समवसेया इति । आह- ननु 'रूपगतं लभते सर्व' इत्येतदनन्तरगाथायामर्थतोऽभिहितमेव, इति किमर्थं पुनरत्राऽभिहितम् । अत्रोच्यतेविस्मरणशीलस्य प्रेयमिदं, प्रतिविहितत्वात् । अथवा, अत्र 'रूपगतं' इत्येतत् प्रस्तुतक्षेत्र-कालयविशेषणतया व्याख्यायते, तद्यथालोकमात्राऽसंख्येयखण्डा-ऽसंख्यातोत्सर्पिण्य-ऽवसर्पिणीलक्षणं प्रस्तुतक्षेत्र-कालद्वयं रूपगतं रूपिद्रव्यानुगतमेव लभते, न तु केवलं, क्षेत्रकालयोरमूर्तत्वात् , अवधेस्तु रूपिद्रव्यविषयत्वात् ॥ इति नियुक्तिगाथार्थः ॥ ६८५ ॥ अथ भाष्यम् खित्तमसंखेज्जाइं लोगसमाई समाउ कालं च । दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए ॥ ६८६ ॥ क्षेत्रमवधिः पश्यति । कियत् ?, इत्याह- असंख्येयानि लोकसमानि लोकतुल्यानि 'खण्डानि' इति गम्यते । कालं चासौ , परमावधिरसंख्येयानि कोकमात्राणि समा असंख्येयाः । रूपगतं लभते सर्व क्षेत्रोपमितमग्निजीवाः ॥ ६८५ ॥ ॥३४६॥ २ क्षेत्रमसंख्येयानि लोकसमानि समाः कालं च । द्रव्यं सर्वं रूपं पश्यति तेषां च पर्यायान् ॥ ६८६ ॥

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202