Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 146
________________ विशेषा० वृत्तिः। ॥३४४॥ सूक्ष्मत्वात् तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलम्भो गम्यत एव, इति व्यर्थस्तेषां पृथगुपन्यासः, अथवा 'एकप्रदेशावगाढं' इत्यपि न वक्तव्यम् , 'रूपगतं लभते सर्वम्' इत्यस्य वक्ष्यमाणत्वात् । अत्रोच्यते- यः मूक्ष्मं परमाण्वादि पश्यति तेन बादरं कामणशरीराद्यवश्यमेव द्रष्टव्यम् , यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमः, यस्मात् तेयाभासादव्वाण अंतरा' इत्यादिवचनादुत्पत्तावगुरुलघु द्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वाऽतिस्थूरमपि घटादिकं च; मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिन्तनीयं तु घटादि स्थूरमपि न पश्यति; एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषोपादानमदोषायैवेति । अथवैकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतं, शेषं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितम् , कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम् ; चशब्दसूचितगुरुलघुग्रहणेन तु घट-पट-भू-भूधरादिकं गृहीतम् , इत्येवं समस्तपुद्गलास्तिकायविषयत्वं परमावधेराविष्कृतं भवति । एवं च सति 'रूपगतं लभते सर्वम्' इत्येतद् वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेव- इत्येतदेव हि रूपगतं नान्यत् । इत्यलं प्रपञ्चेन ॥ इति नियुक्तिगाथार्थः ।। ६७५ ।। अथ भाष्यम् एगपएसोगाढं पेच्छइ, पेच्छइ य कम्मयतणुं पि । अगुरुलहुदवाणि य चसद्दओ गुरुलहूई ति ॥६७६॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसुं बहुतरए सरिज न उ पासए सव्वे ॥ ६७७ ॥ गतार्थे एव, नवरं 'एगभवे त्ति' एकस्मिन् विवक्षितभवे समुत्पन्नेऽवधावतीतमनागतं च पृथग्भवपृथक्त्वं पश्यति । 'णेगेसुमित्यादि' यदि पुनस्तस्याऽप्यतीतभवपृथक्त्वस्य मध्येऽनेकेषु भवेष्ववधिज्ञानमुत्पन्नं स्यात् तदा तेन पूर्वावधिना दृष्टाद् भवपृथक्त्वादपि बहुतरानतीता-ऽनागतभवान् स्मरेत्- स्मृतिज्ञानेन जानीयात् , न तु पृथक्त्वान्तवर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति, भवपृथक्त्वमात्रमेव साक्षात् पश्यतीति भावः ॥ ६७६ ॥ ६७७॥ अत्र प्रेरकः पाह १ गाथा ६२७ । २ एकप्रदेशावगाढं प्रेक्षते, प्रेक्षते च कार्मणतनुमपि । अगुरुलधुदव्याणि च चशब्दतो गुरुलघूनीति ॥ ६०६॥ तैजसशरीरं पश्यन् पश्यति स भवपृथक्त्वमेकभवे । भनेकेषु बहुतरान् स्मरेद् न तु पश्यति सर्वान् ॥ १७॥ ||३४४॥ हावडर For Personal and Private Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202