________________
विशेषा०
वृत्तिः।
॥३४४॥
सूक्ष्मत्वात् तदुपलम्भे बादराणां कार्मणशरीरादीनामुपलम्भो गम्यत एव, इति व्यर्थस्तेषां पृथगुपन्यासः, अथवा 'एकप्रदेशावगाढं' इत्यपि न वक्तव्यम् , 'रूपगतं लभते सर्वम्' इत्यस्य वक्ष्यमाणत्वात् । अत्रोच्यते- यः मूक्ष्मं परमाण्वादि पश्यति तेन बादरं कामणशरीराद्यवश्यमेव द्रष्टव्यम् , यो वा बादरं पश्यति तेन सूक्ष्ममवश्यं ज्ञातव्यमित्ययं न कोऽपि नियमः, यस्मात् तेयाभासादव्वाण अंतरा' इत्यादिवचनादुत्पत्तावगुरुलघु द्रव्यं पश्यन्नप्यवधिर्न गुरुलघूपलभते, अन्यद्वाऽतिस्थूरमपि घटादिकं च; मनःपर्यायज्ञानी मनोद्रव्याणि सूक्ष्माण्यपि पश्यति, चिन्तनीयं तु घटादि स्थूरमपि न पश्यति; एवं विज्ञानविषयवैचित्र्यसंभवे सति संशयव्यवच्छेदार्थमेकप्रदेशावगाढग्रहणे सत्यपि शेषविशेषोपादानमदोषायैवेति । अथवैकप्रदेशावगाढग्रहणेन परमाण्वादि द्रव्यं गृहीतं, शेषं तु कर्मवर्गणापर्यन्तं कार्मणशरीरग्रहणेनोपलक्षितम् , कर्मवर्गणोपरितनद्रव्यं तु सर्वमप्यगुरुलघुग्रहणेन संगृहीतम् ; चशब्दसूचितगुरुलघुग्रहणेन तु घट-पट-भू-भूधरादिकं गृहीतम् , इत्येवं समस्तपुद्गलास्तिकायविषयत्वं परमावधेराविष्कृतं भवति । एवं च सति 'रूपगतं लभते सर्वम्' इत्येतद् वक्ष्यमाणमस्यैव नियमार्थ द्रष्टव्यमेव- इत्येतदेव हि रूपगतं नान्यत् । इत्यलं प्रपञ्चेन ॥ इति नियुक्तिगाथार्थः ।। ६७५ ।।
अथ भाष्यम्
एगपएसोगाढं पेच्छइ, पेच्छइ य कम्मयतणुं पि । अगुरुलहुदवाणि य चसद्दओ गुरुलहूई ति ॥६७६॥ तेयसरीरं पासं पासइ सो भवपुहुत्तमेगभवे । णेगेसुं बहुतरए सरिज न उ पासए सव्वे ॥ ६७७ ॥
गतार्थे एव, नवरं 'एगभवे त्ति' एकस्मिन् विवक्षितभवे समुत्पन्नेऽवधावतीतमनागतं च पृथग्भवपृथक्त्वं पश्यति । 'णेगेसुमित्यादि' यदि पुनस्तस्याऽप्यतीतभवपृथक्त्वस्य मध्येऽनेकेषु भवेष्ववधिज्ञानमुत्पन्नं स्यात् तदा तेन पूर्वावधिना दृष्टाद् भवपृथक्त्वादपि बहुतरानतीता-ऽनागतभवान् स्मरेत्- स्मृतिज्ञानेन जानीयात् , न तु पृथक्त्वान्तवर्तिन इव तान् सर्वान् साक्षादवधिज्ञानेन पश्यति, भवपृथक्त्वमात्रमेव साक्षात् पश्यतीति भावः ॥ ६७६ ॥ ६७७॥
अत्र प्रेरकः पाह
१ गाथा ६२७ । २ एकप्रदेशावगाढं प्रेक्षते, प्रेक्षते च कार्मणतनुमपि । अगुरुलधुदव्याणि च चशब्दतो गुरुलघूनीति ॥ ६०६॥
तैजसशरीरं पश्यन् पश्यति स भवपृथक्त्वमेकभवे । भनेकेषु बहुतरान् स्मरेद् न तु पश्यति सर्वान् ॥ १७॥
||३४४॥
हावडर
For Personal and Private Use Only