SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥३४३ ॥ Jain Educations Internatio तानि, अवद्धेभ्यश्च बद्धानि बादराणि भवन्ति, अच्युततन्तुभ्यश्च्युततन्तुषु तथादर्शनात् । अतोऽत्र कार्मणशरीरदर्शिनः स्तोकौ क्षेत्रकालौ विषयत्वेनोक्ताविति ॥ ६७३ ।। अत्र भाष्यम् -- 'एयाई जओ कम्मयदव्वेर्हितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्त-काल त्थ ॥ ६७४ ॥ एतानि यतस्तैजसादीनि तैजसशरीर- कार्मणशरीर- तैजसवर्गणाद्रव्य-भाषावर्गणाद्रव्याणीत्यर्थः, कार्मणशरीर योग्य वर्ग णाद्रव्येभ्योतिस्थूलतराणि वादराणि तस्मात् स्तोकतरौ क्षेत्र - कालावत्र प्रोक्तौ इति प्रागेव भावितम् ॥ इति सभाप्यनिर्युक्तिगाथार्थः ॥ ६७४ ॥ आह-ननु यथा जघन्य-मध्यमावधी निर्दिष्टन्यायेनाऽसर्वरूपिद्रव्यविषयावुक्तौ, तथोत्कृष्टावधिरपि, आहोस्वित् सर्वमपि रूपद्रव्यमसौ पश्यति ?, इत्याशङ्कयाह एगपएसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुयलहुयं तेयसरीरे भव हुतं ॥ ६७५ ॥ एकस्मिनाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणु- व्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तं सर्वमपि द्रव्यं, परमश्वासाववधिव परमावधिरुत्कृष्टावधिरित्यर्थः, लभते पश्यति तथा कार्मणशरीरं च लभते । आह- 'एकप्रदेशावगाढं ' इति सामान्योक्तौ कथं परमा-णुकादिकं द्रव्यं गम्यते, यावता 'एकप्रदेशावगाढं कार्मणशरीरं' इत्युपात्तमेव कस्माद् न योज्यते । नैवम् कार्मणशरीरस्याsसंख्येयप्रदेशावगाहित्वेनैकमदेशावर्गाढत्वासंभवादिति । अगुरुलघु च द्रव्यं सर्वमपि परमावधिः पश्यति । जात्यपेक्षं चैकवचनम्, | अन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि, गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा तैजस| शरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् । एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वमपि पश्यति । पृथक्त्वं च द्वाभ्यामारभ्याss नवभ्यः सर्वत्र द्रष्टव्यम् । इह च य एव हि प्राक् तैजसं पश्यतः पल्योपमासंख्येयभागरूपोऽसंख्येयकालोऽभिहितः, स एवानेन भवपृथक्त्वेन विशेष्यते, इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते भवपृथक्त्वमध्य एव स पल्योपमासंख्येयभागः कालो नाधिकः, एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति । आह- नन्वेकप्रदेशावगाढस्य परमाण्वादेरति १ एतानि यतः कार्मणद्रव्येभ्योऽतिस्थूलतरकाणि । तैजसादिकानि तस्मात् स्तोकतरौ क्षेत्र कालावत्र ॥ ६७४ ॥ २ एकप्रदेशावगाढं परमावधिर्लभते कार्मणशरीरम् । लभते चागुरुकलघुकं तैजसशरीरे भवपृथक्त्वम् ॥ ३७५ ॥ ३ . छ. 'पुहतं' । ४क.ग. 'गाहिया' । For Personal and Private Use Only बृहद्वृत्तिः । ॥३४३ ॥ www.jainelibrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy