Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥३४३ ॥
Jain Educations Internatio
तानि, अवद्धेभ्यश्च बद्धानि बादराणि भवन्ति, अच्युततन्तुभ्यश्च्युततन्तुषु तथादर्शनात् । अतोऽत्र कार्मणशरीरदर्शिनः स्तोकौ क्षेत्रकालौ विषयत्वेनोक्ताविति ॥ ६७३ ।।
अत्र भाष्यम् --
'एयाई जओ कम्मयदव्वेर्हितोऽतिथूलयरयाई । तेयाइयाई तम्हा थोवयरा खेत्त-काल त्थ ॥ ६७४ ॥ एतानि यतस्तैजसादीनि तैजसशरीर- कार्मणशरीर- तैजसवर्गणाद्रव्य-भाषावर्गणाद्रव्याणीत्यर्थः, कार्मणशरीर योग्य वर्ग णाद्रव्येभ्योतिस्थूलतराणि वादराणि तस्मात् स्तोकतरौ क्षेत्र - कालावत्र प्रोक्तौ इति प्रागेव भावितम् ॥ इति सभाप्यनिर्युक्तिगाथार्थः ॥ ६७४ ॥ आह-ननु यथा जघन्य-मध्यमावधी निर्दिष्टन्यायेनाऽसर्वरूपिद्रव्यविषयावुक्तौ, तथोत्कृष्टावधिरपि, आहोस्वित् सर्वमपि रूपद्रव्यमसौ पश्यति ?, इत्याशङ्कयाह
एगपएसोगाढं परमोही लहइ कम्मगसरीरं । लहइ य अगुरुयलहुयं तेयसरीरे भव हुतं ॥ ६७५ ॥
एकस्मिनाकाशप्रदेशेऽवगाढं स्थितमेकप्रदेशावगाढं परमाणु- व्यणुकाद्यनन्ताणुकस्कन्धपर्यन्तं सर्वमपि द्रव्यं, परमश्वासाववधिव परमावधिरुत्कृष्टावधिरित्यर्थः, लभते पश्यति तथा कार्मणशरीरं च लभते । आह- 'एकप्रदेशावगाढं ' इति सामान्योक्तौ कथं परमा-णुकादिकं द्रव्यं गम्यते, यावता 'एकप्रदेशावगाढं कार्मणशरीरं' इत्युपात्तमेव कस्माद् न योज्यते । नैवम् कार्मणशरीरस्याsसंख्येयप्रदेशावगाहित्वेनैकमदेशावर्गाढत्वासंभवादिति । अगुरुलघु च द्रव्यं सर्वमपि परमावधिः पश्यति । जात्यपेक्षं चैकवचनम्, | अन्यथा ह्येकप्रदेशावगाढानि कार्मणशरीराण्यगुरुलघूनि, गुरुलघूनि च सर्वाण्यपि द्रव्याण्यसौ पश्यतीत्यवगन्तव्यमिति । तथा तैजस| शरीरविषयेऽवधौ कालतो भवपृथक्त्वं परिच्छेद्यतयाऽवगन्तव्यम् । एतदुक्तं भवति - यस्तैजसशरीरं पश्यति स कालतो भवपृथक्त्वमपि पश्यति । पृथक्त्वं च द्वाभ्यामारभ्याss नवभ्यः सर्वत्र द्रष्टव्यम् । इह च य एव हि प्राक् तैजसं पश्यतः पल्योपमासंख्येयभागरूपोऽसंख्येयकालोऽभिहितः, स एवानेन भवपृथक्त्वेन विशेष्यते, इदमपि च भवपृथक्त्वं तेनासंख्येयकालेन विशेष्यते भवपृथक्त्वमध्य एव स पल्योपमासंख्येयभागः कालो नाधिकः, एतन्मध्य एव च भवपृथक्त्वं न बहिस्तादिति । आह- नन्वेकप्रदेशावगाढस्य परमाण्वादेरति
१ एतानि यतः कार्मणद्रव्येभ्योऽतिस्थूलतरकाणि । तैजसादिकानि तस्मात् स्तोकतरौ क्षेत्र कालावत्र ॥ ६७४ ॥ २ एकप्रदेशावगाढं परमावधिर्लभते कार्मणशरीरम् । लभते चागुरुकलघुकं तैजसशरीरे भवपृथक्त्वम् ॥ ३७५ ॥ ३ . छ. 'पुहतं' । ४क.ग. 'गाहिया' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥३४३ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202