SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ विशेषा. बृहद्वत्तिः । ॥३५३॥ अथ संस्थानद्वारमभिधित्सुराह-- 'थिबुगागार जहन्नो वट्टो, उक्कोसमायओ किंचि । अजहण्णमणुकोसो य खेत्तओ अणेगसंठाणो ॥७०४॥ स्तिबुको बिन्दुरुच्यते, तदाकासे जघन्यावधिर्भवति । एतदेवाह- 'वट्टो त्ति' सर्वतो वृत्त इत्यर्थः, 'जावइया तिसमयाहारगस्स' इत्यादिना प्रतिपादितस्य पनकावगाहनाक्षेत्रस्यैतदाकारत्वादिति । उत्कृष्टावधिस्तु परमावधिः किञ्चिदायतः किमपि प्रदीर्घः, न तु सर्वथा वृत्त इत्यर्थः, अग्निजीवमूचेरवधिमच्छरीरस्याऽऽपाद-मस्तकान्तं भ्रम्यमाणाया एतदाकारभावादिति । अजघन्योत्कृष्टो-न जघन्यो नाप्युत्कृष्टो मध्यम इत्यर्थः । अयं पुनः क्षेत्रतोऽनेकानि संस्थानानि यस्येत्यनेकसंस्थानो भवति ।। इति नियुक्तिगाथार्थः ।। ७०४ ॥ अथ भाष्यम् पणओ थिबुयागारो तेण जहन्नावही तयागारो । इयरो सेढिपरिक्खेवओ सदेहाणुवत्तीए ॥ ७०५॥ इतर उत्कृष्टः, अवधिमत्स्वदेहानुवृत्त्याऽग्निजीवश्रेणिपरिक्षेपात् 'किश्चिदायतः' इति शेषः । शेषं सुगमम् ॥ ७०५ ।। अथ मध्यमावधेर्यदनेकसंस्थानत्वमुक्तम् ,तद्विशेषतो दर्शयन्नाह "तप्पागारे पल्लग-पडहग-झल्लरि-मुइंग-पुप्फ-जवे । तिरिय-मणुएसु ओही नाणाविहसंठिओ भणिओ ॥७०६॥ तप्र उडुकस्तस्येवाऽऽकारो यस्याऽसौ तपाकारोऽवधि रकाणां मन्तव्यः, तपश्च किलाऽऽयतव्यस्रो भवति । पल्लको धान्याधारभूतोऽत्रैव प्रतीतः, स चोर्ध्वायतः, उपरि च किश्चित्संक्षिप्तः, तदाकारोऽवधिर्भवनपतीनाम् । पटहक आतोद्यविशेषः प्रतीत एव, सच नात्यायतोऽध उपरि च समः, तदाकारोऽवधिय॑न्तराणाम् । उभयतो विस्तीर्णचविनद्धमुखो मध्ये संकीर्णो ढकालक्षणाऽऽतोद्यविशेषो झल्लरी, तदाकारोऽवधिज्योतिष्काणाम् । मृदङ्गोऽप्यातोद्यमेव, स चोर्ध्वायतोऽधोविस्तीर्ण उपरि च तनुकस्तदाकारोऽवधिः सौधर्माद्यच्युतान्तकल्पनिवासिदेवानाम् । 'पुप्फेति' सूचनात् मूत्रमिति कृत्वा सपशिखा पुष्पभृता चङ्गेरी पुष्पचङ्गेरी परिगृह्यते, तदाकारोऽवधिवेयकविमानवासिदेवानाम् । 'जवे त्ति' यवो यवनालकः, स च कन्याचोलकोऽवगन्तव्यः । अयं च मरुमण्डलादिप्रसिद्धश्चरणकरूपेण १स्तिवुकाकारो जघन्यो वृत्तः, उस्कृष्ट आयतः किञ्चित् । अजघन्या-ऽनुत्कृष्टश्च क्षेत्रतोऽनेकसंस्थानः ॥ ७ ॥ २ गाथा ५८८ । ३ पनकः स्तिबुकाकारस्तेन जघन्यावधिस्तदाकारः । इतरः श्रेणिपरिक्षेपतः स्वदेहानुवृत्या ॥ ७०५॥ तप्राकारः पटक-पटहक-मल्लरी-मृदा-पुष्प-यवः । तिर्यग-मनुजेष्ववधिर्नानाविधसंस्थितो भणितः ॥ ७०६॥ ५५.छ. 'री प' । ॥३५॥ For Personal and Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy