Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्वत्तिः।
॥२९॥
चोर्ध्वा-ऽधोगामिनः माय ऊर्ध्वलोकान्तादधोलोकान्तं गच्छन्ति, अधोलोकान्तात् तू लोकान्तम् । प्रायोग्रहणादनुश्रेणि तिर्यम् गच्छन्ति । तस्माद् गुरुताऽभावे कथं तेऽधोऽभिव्रजन्ति, लघुताऽभावे च कथमूर्ध्वमनुधावन्तीति ।
इह प्रेरकस्याऽयमभिप्रायः- गुरुतानिबन्धनमधोगमनमयोगोलकादीनामिव; लघुतापत्ययं चोर्ध्वगमनं, दीपकलिकादीनामिव ; गुरुलघुत्वसाध्यं च तिर्यग्गमनं, वाय्वादीनामिवः अगुरुलघुताकारणं चावस्थानं, यथा ब्योमादीनाम् , आकाशमतिष्ठिताऽऽनतदेवलोकविमानादीनां च । ततो व्यवहारवत् त्वयाऽपि गुर्वादिचतुर्विधवस्त्वभ्युपगमः कार्य इति ॥ ६६१ ॥ ६६२ ॥
अथ निश्चयनयवादी प्रत्युत्तरयति
'अन्न च्चिय गुरुलया अन्नो दवाण वीरियपरिणामो । अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो॥६६३।
इहाऽन्यैव काचिद् द्रव्याणां गुरुतो लघुता च, अन्यश्च वीर्यपरिणामः, अन्य एव च तेषां गतिपरिणामः, नावश्यं गुरुत्वलघुत्वनिमित्त इति ॥ ६६३ ।।
कुतः, इत्याह'परमलहूणमणूणं जं गमणमहो वि तत्थ को हेऊ ? | उड्ढं धूमाईणं थूलयराणं पि किं कज्जं ? ॥६६॥
किं व विमाणाईणं नाहोगमणं महागुरूणं पि । तणुयरदेहो देवो हक्खुवइ व किं महासेलं ? ॥ ६६५ ॥
यद् यस्मात् परमलघूनामप्यणूनां गमनमधोऽपि भवति, तत्र हन्त ! अधोगतिपरिणामोत्कटतां विहाय कोऽन्यो हेतुः -न कोऽपीत्यर्थः। तथा, स्थूलतराणामपि बादराणामपि, बादरत्वेन गुरूणामपीति तात्पर्यम् , धूमादीनां यज़ गमनं भवति, तत्राप्यूप्रगतिपरिणामोत्कटत्वं परित्यज्य किं कार्य किमन्यत्प्रयोजनम् ?- न किञ्चिदित्यर्थः । तदेवमुत्कटेनाधोगतिपरिणामेन लकिता परमाणुगता लघुता, ऊर्ध्वगतिपरिणामेनापि प्रबलेनाऽतिक्रान्ता धूमादिगता गुरुता, इत्यस्यां गाथायां दर्शितम् । तद्दर्शने च 'अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो' इत्येतत् समर्थितम् । गतिपरिणामेन च गुरुलघुतयोरतिक्रमणमुपलक्षणम् , अतः स्थितिपरिणामेनाप्यु
, अन्यैव गुरुलघुताऽन्यो द्रव्याणां वीर्यपरिणामः । अन्यो गतिपरिणामो नावश्यं गुरुलघुनिमित्तः ॥ ६६३॥ १. ख, ग, 'ता च ल'। ३ परमलघूनामणूनां यद् गमनमधोऽपि तत्र को हेतुः । उर्व भूमादीनां स्थूलतराणामपि किं कार्यम् ! ।। ६६४ ॥ किं वा विमानादीनां नाधोगमनं महागुरूणामपि ? । तनुतरदेहो देव उरिक्षपति वा किं महाशैलम् ॥ ६६५ ॥ ४ गाथा ६६३ ।
॥३३९॥
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202