SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वत्तिः। ॥२९॥ चोर्ध्वा-ऽधोगामिनः माय ऊर्ध्वलोकान्तादधोलोकान्तं गच्छन्ति, अधोलोकान्तात् तू लोकान्तम् । प्रायोग्रहणादनुश्रेणि तिर्यम् गच्छन्ति । तस्माद् गुरुताऽभावे कथं तेऽधोऽभिव्रजन्ति, लघुताऽभावे च कथमूर्ध्वमनुधावन्तीति । इह प्रेरकस्याऽयमभिप्रायः- गुरुतानिबन्धनमधोगमनमयोगोलकादीनामिव; लघुतापत्ययं चोर्ध्वगमनं, दीपकलिकादीनामिव ; गुरुलघुत्वसाध्यं च तिर्यग्गमनं, वाय्वादीनामिवः अगुरुलघुताकारणं चावस्थानं, यथा ब्योमादीनाम् , आकाशमतिष्ठिताऽऽनतदेवलोकविमानादीनां च । ततो व्यवहारवत् त्वयाऽपि गुर्वादिचतुर्विधवस्त्वभ्युपगमः कार्य इति ॥ ६६१ ॥ ६६२ ॥ अथ निश्चयनयवादी प्रत्युत्तरयति 'अन्न च्चिय गुरुलया अन्नो दवाण वीरियपरिणामो । अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो॥६६३। इहाऽन्यैव काचिद् द्रव्याणां गुरुतो लघुता च, अन्यश्च वीर्यपरिणामः, अन्य एव च तेषां गतिपरिणामः, नावश्यं गुरुत्वलघुत्वनिमित्त इति ॥ ६६३ ।। कुतः, इत्याह'परमलहूणमणूणं जं गमणमहो वि तत्थ को हेऊ ? | उड्ढं धूमाईणं थूलयराणं पि किं कज्जं ? ॥६६॥ किं व विमाणाईणं नाहोगमणं महागुरूणं पि । तणुयरदेहो देवो हक्खुवइ व किं महासेलं ? ॥ ६६५ ॥ यद् यस्मात् परमलघूनामप्यणूनां गमनमधोऽपि भवति, तत्र हन्त ! अधोगतिपरिणामोत्कटतां विहाय कोऽन्यो हेतुः -न कोऽपीत्यर्थः। तथा, स्थूलतराणामपि बादराणामपि, बादरत्वेन गुरूणामपीति तात्पर्यम् , धूमादीनां यज़ गमनं भवति, तत्राप्यूप्रगतिपरिणामोत्कटत्वं परित्यज्य किं कार्य किमन्यत्प्रयोजनम् ?- न किञ्चिदित्यर्थः । तदेवमुत्कटेनाधोगतिपरिणामेन लकिता परमाणुगता लघुता, ऊर्ध्वगतिपरिणामेनापि प्रबलेनाऽतिक्रान्ता धूमादिगता गुरुता, इत्यस्यां गाथायां दर्शितम् । तद्दर्शने च 'अन्नो गइपरिणामो नावस्सं गुरुलहुनिमित्तो' इत्येतत् समर्थितम् । गतिपरिणामेन च गुरुलघुतयोरतिक्रमणमुपलक्षणम् , अतः स्थितिपरिणामेनाप्यु , अन्यैव गुरुलघुताऽन्यो द्रव्याणां वीर्यपरिणामः । अन्यो गतिपरिणामो नावश्यं गुरुलघुनिमित्तः ॥ ६६३॥ १. ख, ग, 'ता च ल'। ३ परमलघूनामणूनां यद् गमनमधोऽपि तत्र को हेतुः । उर्व भूमादीनां स्थूलतराणामपि किं कार्यम् ! ।। ६६४ ॥ किं वा विमानादीनां नाधोगमनं महागुरूणामपि ? । तनुतरदेहो देव उरिक्षपति वा किं महाशैलम् ॥ ६६५ ॥ ४ गाथा ६६३ । ॥३३९॥
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy