________________
विशेषा०
बृहद्वृत्तिः ।
॥३३८॥
गुरुयं लहुयं उभयं नोभयमिति वावहारियनयस्स । दव्वं, लेट्टुं दीवो वाऊ वोमं जहासंखं ॥ ६५९ ॥ निच्छयओ सव्वगुरुं सव्वलहुं वा न विजए दन्वं । बायरमिह गुरुलहुयं अगुरुलहुं सेसयं सेव्वं ॥६६०॥
इह यज़ तिर्यग् वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद् गुरु द्रव्यम् , यथा लेष्टादि । यत्तु निसर्गत एवोर्ध्वगतिखभावं द्रव्यं तल्लघु, यथा दीपकलिकादि । यत्तु नोर्ध्वगतिखभावं नाप्यधोगतिखभावं, किं तर्हि ?, स्वभावेनैव तिर्यग्गतिधर्मकं तद् द्रव्यं गुरुलघु, यथा वाय्वादि । यत्पुनरू;-ऽध-स्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति, सर्वत्र वा गच्छति तद् गुरुलघु, यथा व्योमपरमाण्वादि । इति व्यावहारिकनयमतम् ।
निश्चयतस्तु- निश्चयनयमतेन, सर्वगुरु- एकान्तेन गुरुस्वभावं किमपि वस्तु नास्ति, गुरोरपि लेष्ट्रादेः परप्रयोगाभंदिगमनदर्शनात् । एकान्तेन लध्वपि नास्ति, अतिलघोरपि बाष्पादेः करताडनादिनाऽधोगमनादिदर्शनात् । तस्माद् नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । अतो निश्चयनयस्येयं परिभाषा- यत् किमप्यत्र लोके औदारिकवर्गणादिकं भू-भूधरादिकं वा बादरं वस्तु तत् सर्व गुरुलघु, शेषं तु भाषा-ऽऽना-पान-मनोवर्गणादिकं परमाणु-यणुक-व्योमादिकं च सर्व वस्त्वगुरुलध्विति ॥ ६५९ ॥ ६६० ॥
अत्र परः पाह
जइ गुरुयं लहुयं वा न सव्वहा दवमत्थि तो कीस। उड्ढमहो वि य गमणं जीवाणं पोग्गलाणं च ?॥६६१॥
उड्ढं लहुकम्माणं भणियं गुरुकम्मणामहोगमणं । जीवा य पोग्गला वि य उड्ढा-होगामिणो पायं ॥६६२॥ यदि भो निश्चयनयमतवादिन् ! एकान्तगुरु एकान्तलघु वा सर्वथा द्रव्यं नास्ति, तर्हि किमित्यूर्ध्वम् , अधोऽपि च जीवानां पुद्गलानां च गमनं भवति । पर एव स्वपक्षं भावयति- यत ऊर्ध्व सौधर्मदेवलोकादौ लघुकर्मणां जीवानां गमनं भणितमागमे, गुरुकर्मणां त्वधः सप्तमपृथिव्यादौ गमनमभिहितः । अथवा, किमित्थमभिहितेन, सर्वेषामपि समयवेदिनां प्रसिद्धमेवेदं यदुत-जीवाश्च पुद्गला अपि
, गुरुक लघुकमुभयं नोभयमिति व्यावहारिकनयस्य । द्रव्यं, लेष्टु दीपो वायुयोम यथासंख्यम् ॥ ६५९ ॥ __निश्चयतः सर्वगुरु सर्वलघु वा न विद्यते द्रव्यम् । बादरमिह गुरुलघुकमगुरुलघु शेषकं सर्वम् ॥ ६६०॥ २ प. छ. 'दब्वं' । ३ यदि गुरुकं लघुकं वा न सर्वथा द्रव्यमस्ति ततः कस्मात् । अर्ध्वमधोऽपि च गमनं जीवानां पुद्गलानां च ॥ १६ ॥ मध्य कधुकर्मणां भणितं गुरुकर्मणामधोगमनम् । जीवास पुद्गला अपि च अवा-ऽधोगामिनः प्रायः ॥ ६॥२॥
॥३३८॥
For Personal and Private Use Only