SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कटेन गुरुतातिक्रमं दर्शयति- 'किं व विमाणेत्यादि' यदि गुरुताऽधोगतिनिबन्धनमिष्यते, तहिं हन्त ! किमित्यानतदेवलोविशेषा० कविमानादीनाम् , आदिशब्दादीषत्माग्भारापृथिव्यादीनां महागुरूणामप्यधोगमनं न भवति ? । तस्मात् तत्राप्युत्कटः स्थितिपरिणाम बृहद्वृत्तिः । एवं गुरुतामतिक्रम्य तेषामवस्थितिं करोतीति । अथ यदुक्तम्- 'अन्नो दवाण वीरियपरिणामो' इति, एतत्समर्थनार्थमाह- 'तणुयरदेहो ॥३४॥ इत्यादि तनुतरशरीरो महावीर्यो देवो वा किमिति महाशैलं कमप्युत्क्षिपति, उत्क्षिप्य चोर्ध्व प्रक्षिपति । इदमुक्तं भवति- यदि गुरुतादयोऽधोगत्यादिकारणं भवेयुस्तदाऽसौ महाशैलो निजगुरुतया महावीर्यवन्तं देवमाक्रम्याधस्तादेव यायादिति ॥६६४॥६६५॥ अत्र पराभिप्रायमाशङ्कयोत्तरमाह अह तस्स वीरियं तं तो नाहो गमणकारणं गुरुया । उड्ढगइकारणं वा लहुया एगंतओ जुत्ता ॥६६६॥ अथ मन्यसे- देवस्य संबन्धि तद् महावीर्य येन गुरुरपि पर्वत ऊर्ध्वमुक्षिप्यते । हन्त ! ततस्तषेकान्ततो नाऽधोगतिकारणं E गुरुतैव, नाप्येकान्तेनोर्ध्वगतिकारणं लघुतैव युक्ता । किं तर्हि !, देवादिगतं वीर्यमपि, इत्यायातम् ।। ६६६ ॥ ततश्च विरियं गुरु-लहुयाणं जहाहियं गइविवजयं कुणइ । तह गइ-ठिइपरिणामो गुरु-लहुयाओ विलंघेइ॥६६७|| यथोक्तन्यायेन देवादिगतं वीर्यमधिकं सद् वस्तूनां गुरु-लघूनां गतिविपर्ययं करोति, तथा गति-स्थितिपरिणामोऽप्यधिकः । पागुक्तन्यायेन वस्तूनां गुरु-लघुते विलङ्घयत्येव- गतिविपर्ययं करोत्येवेत्यर्थः । यथा गुरौ पर्वते देववीर्याद् गतिविपर्ययो दर्शितः, एवं लघावपि बाष्पादौ करताडिते देवदत्तादिवीर्याद् गतिविपर्ययो दृश्यः । तस्माद् नैकान्तेनाऽधोगत्यादिकारणं गुरुतादयः । किं तर्हि ?, देवादिगतं वीर्यमपि, महीध्र-बाष्पादिषु तथादर्शनात् । तथोत्कटो गति-स्थितिपरिणामोऽपि तत्कारणम् , परमाणु-धूम-विमानादिषु तथादर्शितत्वात् । अतः किमधोगत्यादिसिद्धये गुर्वादिवस्तुचतुष्टयाभ्युपगमेन' । तत इयमेव परिभाषा युक्तिमती- बादरं गुरुलघु, शेषं तु सूक्ष्म, अमूर्त च सर्व वस्त्वगुरुलघु । इति निश्चयनयः ॥ ६६७ ॥ अथोत्तरनियुक्तिगाथासंबन्धनार्थमाह१ गाथा ६६३ । २ अथ तस्य वीर्य तत् ततो नाधोगमनकारणं गुरुता । अर्ध्वगतिकारणं वा लघुतैकान्ततो युक्ता ॥ ६६६ ॥ ॥३४॥ वीर्य गुरु-लघुकानां यथाऽधिकं गतिविपर्ययं करोति । तथा गति-स्थितिपरिणामो गुरुलघुते विलक्यति ॥१०॥ Form y
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy