SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥३४॥ भणिओ खित्त-द्धाणं सुद्धाणं चिय परोप्परनिबंधो । इह ताणं चिय भण्णइ दव्वेण समं निबंधोऽय॥६६८॥8 ___ इह 'अंगुलमावलियाणं भागमसंखिज' इत्यादिना भणितः पूर्व क्षेत्र कालयोः शुद्धयोरेव द्रव्यरहितयोः परस्परनिबन्धः । अथ बृहदृत्तिः । तयोरेव द्रव्येण सहाऽसौ पोच्यते ॥ इति गाथादशकार्थः ॥ ६६८ ॥ स्वप्रतिज्ञांतार्थमेवाह संखेज मणोदव्वे भागो लोग-पलियस्स बोधव्यो। संखिज्ज कम्मदव्वे लोए थोऊणयं पलियं ॥ ६६९ ॥ मनोवर्गणागतं मनःपरिणामयोग्यं द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये मनोद्रव्यविषयेऽवधौ ‘संखेज त्ति' संख्येयतमो भागो लोक-पल्योपमयोर्विषयत्वेन बोद्धव्यः । इदमुक्तं भवति- मनोवर्गणाद्रव्यं पश्यन्नवधिः क्षेत्रतो लोकस्य संख्यांततम भाग, कालतस्तु पल्योपमस्य संख्येयतमं भागं पश्यतीति । 'संखिज्ज कम्मदवे ति कर्मवर्गणागतं कर्मणो योग्यं द्रव्यं तद्विषयेऽवधौ संख्येया लोकपल्योपमभागास्तद्विषयतयाऽवगन्तव्याः । इदमुक्तं भवति- कर्मवर्गणाद्रव्यं पश्यन्नवाधिः क्षेत्रतो लोकस्य संख्येयान् भागान् पश्यति, कालतस्तु पल्योपमस्य संख्येयान् भागानवलोकयति । 'लोए थोऊणयं पलियं ति' चतुर्दशरज्ज्वात्मकलोकाविषयेऽजधौ कालतः स्तोकोनं पल्योपमं विषयतया बोद्धव्यम् । इदमत्र हृदयम्- क्षेत्रतः समस्तलोकं पश्यन्नवधिः कालतः स्तोकोनं पल्योपमं पश्यति । द्रव्येण सह क्षेत्र-कालयोरुपनिबन्धे प्रस्तुते केवलयोरुपनिबन्धप्ररूपणं विस्मरणशीलतासूचकमिति चेत् । नैवम् , साक्षादिह द्रव्योपनिवन्धो नोक्तः, सामर्थ्यात् त्वसौ प्रोक्त एव, तथाहि- पूर्व 'काले चउण्ह बुड्ढी' इत्युक्तमेव । कालवृद्धिश्वानन्तरोक्तकर्मद्रव्यदर्शकापेक्षयाब्रोक्तैव । ततश्चास्य समस्तलोकस्तोकोनपल्योपमदर्शिनः सामर्थ्यात् कर्मद्रव्योपर्येव किमपि द्रव्यं विषयत्वेन द्रष्टव्यम् , अत एव च तदुपर्यपि ध्रुववर्गणादिद्रव्यं पश्यतः क्षेत्र-कालवृद्धिक्रमेण परमावधिसंभवोऽप्यनुमीयते ।। इति नियुक्तिगाथार्थः ॥६६९।। अथ भाष्यम् लोगपलियाण भागं संखइमं मुणइ जो मणोदव्वं । संखेज्जे पुण भाए पासइ जो कम्मुणो जोग्गं ॥६७०॥ , भणितः क्षेत्रा-ऽवयोः शुद्धयोरेव परस्परनिबन्धः । इइ तयोरेव मण्यते द्रव्येण समं निबन्धोऽयम् ॥ ६१८॥ २ गाथा ६.। ३ क. ख. ग. 'ज्ञातमे। ॥३४॥ ४ संख्येयो मनोव्ये भागो लोक-पल्ययोबोंदव्यः । संख्येयाः कर्मद्रव्ये लोके स्तोकोनकं पल्यम् ॥१९॥ ५५. छ. 'संखेज' । ६ गाथा ६१७॥ ७ घ. छ. 'नुमेय ई। ८ लोक-पत्ययोभाग संख्येयं जानाति यो मनोव्यम् । संख्येयान् पुनर्भागान् पश्यति यः कर्मणो योग्यम् ॥ १०॥ For eso v ery
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy