________________
अयं पुनरचित्तमहास्कन्धोऽचित्तमहास्कन्धान्तरेण सहाऽवगाहना-स्थितिभ्यां तुल्य एव । अतो ज्ञायते- एतस्मादपर एव कचित् विशेषा. ON ते प्रज्ञापनोक्ता उत्कृष्टप्रदेशिकाः स्कन्धा इति । किञ्च, 'अट्ठप्फासो य जओ भणिओ त्ति' 'उक्कोसपएसो' इत्यनन्तरगाथागतं
संबध्यते । ततश्चाष्टस्पर्शस्य यतः प्रज्ञापनायां भणित उत्कृष्टप्रदेशिकः स्कन्धः । एष पुनरचित्तमहास्कन्धो यस्माच्चतुःस्पर्श इष्यते । तस्मा॥३३४॥
दनयैवोत्कृष्टपदेशिकस्कन्धानां भेदसिद्धया पूर्वोक्तवर्गणामिश्राचित्तमहास्कन्धेभ्योऽन्येऽपि कचिदसंगृहीताः पुद्गलविशेषा अद्यापि सन्तीति श्रद्धेयम् , न पुनरेतावता सर्वोऽपि पुद्गलास्तिकायः संगृहीत इति भावः । तदेवमुक्ता द्रव्यवर्गणाः, 'अह दव्ववग्गणाणं कमो' एतत्पर्यन्ता च व्याख्याता नियुक्तिगाथा ।। ६४५॥ ६४६ ॥
अथ "विवज्जासओ खेत्ते' एतद्वयाचिख्यासुः क्षेत्रादिवर्गणास्वरूपमाहऐगपएसोगाढाण वग्गणेगा पएसवुड्ढीए । संखेजोगाढाणं संखेज्जा वग्गणा तत्तो ॥ ६४७॥ तत्तो संखाईयाऽसंखाइयप्पएसमाणाणं । गंतुमसंखेजाओ जोग्गाओ कम्मुणो भणिया ॥ ६४८॥
तत्तो संखाईया तस्सेव पुणो हवंति जोग्गाओ। माणसदव्वाईण वि एवं तिविगप्पमेकेकं ॥ ६४९ ॥
विपर्यासतो विपर्यासेन पश्चान्मुखः क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, न तु द्रव्यवर्गणावदिति भावः । इदमुक्तं भवति- परमाशूनां घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानां चैकाकाशप्रदेशावगाहिनां सर्वेषामप्येका वर्गणा, घणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव द्विपदेशावगाहिनां द्वितीया वर्गणा, व्यणुकाद्यनन्ताणुकपर्यन्तस्कन्धानामेव त्रिप्रदेशावगाहिनां तृतीया वर्गणा; एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां स्कन्धानां संख्येया वर्गणाः, ततोऽसंख्येयप्रदेशावगाहिनामपि स्कन्धानां प्रदेशवृद्ध्या असंख्या वर्गणा गत्वाऽतिलळ्यासंख्यप्रदेशावगाहिस्कन्धानामेकैकाकाशप्रदेशवृद्ध्या वर्धमानाः कर्मणो ग्रहणयोग्या असंख्येया वर्गणास्तीर्थकरैभणिताः । ततोऽनन्तरमल्पपरमाणुनिष्पन्नत्वाद् बादरपरिणामत्वेन बह्वाकाशप्रदेशावगाहित्वाच्च तस्यैव कर्मणोऽग्रहणयोग्या एकैकाशप्रदेशवृद्ध्या वर्धमाना असंख्येया वर्गणा भवन्ति । ततश्चैवमेकैकाकाशप्रदेशावगाहवृद्ध्या वर्धमाना मनसोऽप्यसंख्येया अग्रहणवर्गणाः, पुनरेतावत्य एवं १ गाथा ६३१ । २ एकप्रदेशावगाढानां वर्गणका प्रदेशवृक्या । संख्येयावगाढाना संख्येया वर्गणास्ततः ॥ ६४७ ॥
ततः संख्यातीता-संख्येयप्रदेशमानानाम् । गत्वाऽसंख्येया योग्याः कर्मणो भणिताः ॥ ६॥ ततः संख्यातीतास्तरुपैव पुनर्भवन्ति योग्याः । मानसद्व्यादीनामप्येवं निविकल्पमेकैकम् ॥ ६१९॥
॥३३४॥
मसतरामास्टर
Jan Education Internat
For Personal and Private Use Only
नसलwww.jaineltrary.ary