________________
१
विशेषा०
बृहद्वत्तिः ।
॥३३३॥
पञ्चक-स्पर्शचतुष्टयलक्षणगुणयुक्तौ च द्वावपि भवतः। तदेवं 'महास्कन्धः' इत्युक्तेऽनन्तानन्तकर्मपुद्गलमयमहास्कन्धः केवलिसमुद्धातगतोऽपि लभ्येत, तस्यापि प्रस्तुतमहास्कन्धसमानक्षेत्र-काला-ऽनुभावत्वात् । न च तेनेह प्रयोजनम् । अतोऽचित्तविशेषणेन तद्व्यवच्छेदः क्रियते, जीवाधिष्ठितत्वेन किल तस्य सचेतनत्वादिति ॥ ६४४ ॥
अथाऽत्र केषांचिद् मतमुपदर्य निराकुर्वन्नाहसव्वुक्कोसपएसो एसो केई, न चायमेगंतो । उक्कोसपएसो जमवगाहद्विइओ चउट्ठाणो ॥ ६४५॥
अट्ठप्फासो य जओ भणिओ, एसो यजं चउप्फासो । अण्णे वि तओ पोग्गलभेया संति त्ति सडेयं ॥६४६॥
एष प्रस्तुतोऽचित्तमहास्कन्धः सर्वोत्कृष्टप्रदेशनिवृत्तो, नान्यः । अयं द्यौदारिकादिवर्गणाः सर्वा अप्यभिधाय पर्यन्ते प्रोक्तः; अतो ज्ञायते- अयमेव सर्वोत्कृष्टपरमाणुसंख्यामचितो, न स्कन्धान्तराणिः निवर्तते ह्यत ऊर्च सर्वापि पुद्गलावशेषाणां कथेति भावः । इत्येवं केचिद् व्याचक्षते । न चाऽयमेकान्तो नैतद् व्याख्यानं संगतमित्यर्थः, यद् यस्मादुत्कृष्टप्रदेशः स्कन्धः प्रतियोग्युत्कृष्टप्रदेशस्कन्धान्तरापेक्षया प्रज्ञापनायामवगाहना-स्थितिभ्यां चतुःस्थानपतित उक्तः। तथाच तत्सूत्रम्
"उक्कोसपएसियाणं भंते ! खंधाणं केवइया पज्जवा पण्णता ? । गोयमा ! अणंता । से केणठेण भंते ! एवं वुच्चइ ! । गोयमा ! उक्कोसपएसिए खंधे उक्कोसपएसियस्स खंधस्स दवठियाए तुल्ले (एकैकद्रव्यत्वात्), पएसठियाए तुल्ले (उत्कृष्टप्रदेशिकस्यैव प्रस्तुतत्वात् ), ओगाहणट्ठियाए चउट्ठाणवडिए, तं जहा- असंखेजभागहीणे वा, संखेज्जभागहीणे वा; संखेजगुणहीणे वा, असंखेजगुणहीणे वा; असंखेज्जभागब्भहिए वा, संखेजभागब्भाहए वा, संखज्जगुणब्भहिए वा, असंखेज्जगुणब्भहिए वा । एवं ठिईए वि चउट्ठाणवडिए, वण्ण-गंध-रस० । अहिं फासेहिं छट्ठाणबडिए"।
सर्वोत्कृष्टप्रदेश एप केचित् , न चायमेकान्तः । उत्कृष्ठप्रदेशो यदवगाह-स्थितितश्चतुःस्थानः ॥ ६५५।।
अष्टस्पर्शश्च यतो भणितः, एष च यचतुःस्पर्शः । अन्येऽपि ततः पुद्गलभेदाः सन्तीति श्रद्धेयम् ॥ ६५६॥
२ उस्कृष्टप्रदेशिकानां भगवन् ! स्कन्धानां कतिपये पर्यवाः प्रज्ञप्ताः ? । गौतम! अनन्ताः । केनार्थेन भगवन् ! एवमुच्यते ?। गौतम ! उत्कृष्टप्रदेशिकः स्कन्ध उस्कृष्टप्रदेशिकस्य स्कन्धस्य द्रव्याधतया तुल्यः, प्रदेशार्थतया तुख्यः, अवगाहनार्थतया चतुःस्थानपत्तितः, तद्यथा- असंख्येषभागहीनो वा, संख्येयभागहीनो वा; संख्येयगुणहीनो वा, असंख्येयगुणहीनो बा; असंख्येयभागाभ्यधिको वा, संख्येयभागाभ्यधिको वा; संख्येयगुणाभ्यधिको वा, असंख्येवगुणाभ्यधिको वा । एवं स्थित्याऽपि चतुःस्थानपतितः; वर्ण-गन्ध-रस० । अष्टाभिः सशैंः पदस्थानपतितः
॥३३३।।
Jain Education Internat
For Personal and Private Use Only
NEdwww.jaineltrary.org