SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ बृहद्वत्तिः । विशेषा० ॥३३२॥ न्धाऽचित्तस्कन्धद्वयस्य तनुर्देहः शरीरं, मूर्तिरिति यावत् , तद्योग्यत्वाभिमुखा वर्गणाः । अथ मिश्रस्कन्धस्वरूपं विवरीषुराह- 'सुहुमो इत्यादि' । 'दरगय त्ति' दरगत ईषत्प्राप्तस्तद्योग्यत्वाभिमुख्येन बादरः परिणामो येनाऽसौ दरगतबादरपरिणामोऽनन्तानन्तपरमाणुप्रचितः मूक्ष्मपरिणाम एवेषद्वादरपरिणामाभिमुखः स्कन्धो मिश्र इत्यर्थः ।। ६४१ ॥ ६४२ ।। अचित्तस्कन्धव्याख्यानार्थमाह जइणसमुग्घायगईए चउहि समयेहिं पूरणं कुणइ । लोगस्स तेहिं चेव य संहरणं तस्स पडिलोमं ॥६४३॥ इह नियुक्तिगाथायां 'तहाऽचित्तो'इति न केवलं मिश्रः, तथैकदेशेन समुदायस्य गम्यमानत्वादचित्तमहास्कन्धश्च भवतीति गम्यते । स चाऽस्यां प्रस्तुतगाथायां योज्यते । कथम् ?, इति चेत् । उच्यते- अचित्तमहास्कन्धः स भवति, यः किम् ? इत्याह-जैनसमुद्धातगत्या | "दण्डं प्रथम समये कपाटमथ चोत्तरे" इत्यादिकेचलिसमुद्धातन्यायेन विस्रसापरिणामवशाद् यश्चतुर्भिः समयैर्लोकस्य पूरणं करोति । संहरणमपि प्रतिलोमं पश्चान्मुखं तस्याचित्तमहास्कन्धस्य तैरेव चतुर्भिः समयैर्द्रष्टव्यम् । एवं च सत्यष्टौ समयान कालमानेनाऽसौ भवतीति ॥६४३॥ आह- ननु पुद्गला इह विचारयितुमुपक्रान्ताः, ततश्च पुद्गलमहास्कन्धोऽचेतन एव भवति, किं तस्याऽचित्तत्वविशेषणेन, व्यवच्छेद्याभावात् , इत्याशङ्कचाह 'जइणसमुग्घायसचित्तकम्मपोग्गलमयं महाखंधं । पइ तस्समाणुभावो होइ अचित्तो महाखंधो ॥६४४॥ जैनसमुदाते यः सचेतनजीवाधिष्ठितत्वात् सचित्तः कर्मपुद्गलमयो महास्कन्धस्तं प्रति तमाश्रित्य तद्व्यवच्छेदायेत्यर्थः । किम् ?, इत्याह- प्रस्तुतः पुद्गलमहास्कन्धोऽचित्तमहास्कन्ध इति व्यपदेश्यो भवति-अचित्तविशेषणेन विशेष्यो भवतीत्यर्थः । कुतः?, इत्याह-यतस्तत्समानुभावः, उपलक्षणत्वात् तत्समक्षेत्र-काला-ऽनुभावः- तेन केवलिसमुद्धातवर्तिना कर्मपुद्गलमयमहास्कन्धेन समास्तुल्याः क्षेत्र-काला-ऽनुभावा यस्याऽसौ तत्समक्षेत्र-काला-अनुभावः । तत्र क्षेत्रं सर्वलोकलक्षणं, कालोऽष्टसमयमानः, अनुभावो वर्ण-गन्धादिगुणः ।। - अयमत्र भावार्थ:- अनन्तानन्तपरमाणुपुद्गलोपचितस्कन्धे वक्तुं प्रस्तुते यदि 'महास्कन्धः, इत्येतावन्मात्रमेवोच्येत, तदा केवलिसमुद्धातगतोऽनन्तानन्तकर्मपुद्गलमयस्कन्धोऽपि लभ्येत, प्रस्तुतमहास्कन्धस्य केवलिसमुद्धातगतकर्मपुद्गलमयमहास्कन्धस्य च समानक्षेत्रकाला-ऽनुभावत्वात् । तथाहि- चतुर्थे समये द्वावपि लोकक्षेत्रं व्याप्नुतः, अष्टसामयिकं च कालं द्वावपि तिष्ठतः, वर्णपश्चक-गन्धय-रस जैनसमुदातगत्या चतुर्भिः समयैः पूरणं करोति । सोकस्य तैरेव च संहरणं तस्य प्रतिलोमम् ॥ ६४३ ॥ ३ गाथा ६३८ । । जनसमुद्रातसचित्तकमपुद्गलमयं महास्कन्धम् । प्रति तत्समानुभाषो भवत्यचित्तो महास्कम्धः ॥ ६४४ ॥ ॥३३२॥ सासारामसार For Personal and Prevate Une Grey
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy