SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 198 बहुद्रव्योपचितत्वेन, अतिसूक्ष्मपरिणामत्वेन च सर्वजीवैरौदारिकादिभावेन कदाचिदप्यग्रहणादिति । इतश्चोर्ध्वमित्यमेवैकोत्तरवृद्धिक्रमेण विशेषा० वर्धमाना ध्रुववर्गणाभ्य इतरा अध्रुववर्गणा अनन्ता भवन्ति । एताश्च तथाविधपुद्गलपरिणामवैचित्र्यात् कदाचिल्लोके न भवन्त्यपि । अत एवाध्रुवा एता उच्यन्ते । ततश्च शून्याः, इतराश्चाऽशून्या वर्गणा भवन्ति । इह च सूचकत्वात् मूत्रस्याह- 'एकोत्तरेत्यादि' एकोत्त॥३३॥ रवृद्धया कदाचिच्छून्यानि व्यवहितान्यन्तराणि यासां ताः शून्यान्तरा अपि भवन्ति यास्ताः शून्यान्तरवर्गणा भण्यन्ते । एता ह्येकोत्तर वृद्ध्या निरन्तरमनन्ताः सदैव प्राप्यन्ते, परं कदाचिदेकोत्तरवृद्धिरेतास्वन्तराऽन्तरा त्रुट्यति-न नैरन्तर्येण प्राप्यन्त इति भावः । Hएकोत्तरवृद्धया सर्वदेवाऽशून्यान्यव्यवहितान्यन्तराणि यासां ता अशून्यान्तराः । एता ह्यशून्यान्तरवर्गणा एकोत्तरवृद्धया निरन्तरमेव To लोके सदैव प्राप्यन्ते, न पुनरेकोत्तरवृद्धिरेतास्वन्तराले कदापि त्रुट्यतीति भावः॥ ६३९ ॥ ६४०॥ 'चउधुवर्णतर-' इत्यादि व्याचिख्यासुराह धुवणंतराइं चत्तारि जं धुवाइं अणंतराइं च । भेयपरिणामओ जा सरीरजोग्गत्तणाभिमुहा ॥ ६४१ ॥ खंधदुगदेहजोग्गत्तणेण वा देहवग्गणाउ त्ति । सुहुमो दरगयबायरपरिणामो मीसयक्खंधो ॥ ६४२ ॥ ततोऽशून्यान्तरवर्गणानामुपरि ध्रुवानन्तराणि चत्वारि वर्गणाद्रव्याणि भवन्ति, यद् यस्मात् तानि ध्रुवाणि सर्वकालभावीनि, TO अनन्तराणि च निरन्तरैकोत्तरवृद्धिभाञ्जीति । इदमुक्तं भवति- आद्या ध्रुवानन्तरवर्गणा अनन्ता भवन्ति, एवमेतावत्यो द्वितीयाः, तृतीयाः, चतुर्थाश्च वाच्याः। ध्रुववर्गणाः प्रागप्युक्ताः, परं ताभ्य एता भिन्ना एव, न पुनस्तास्वन्तर्भवन्ति, अतिमूक्ष्मपरिणामत्वाद् बहुद्रव्योपचितत्वाचेति पृथगुक्ताः । आह- ननु भवत्वेवम् , केवलं यद्येता निरन्तरमेकोत्तरवृद्धिभाजः, तर्हि चातुर्विध्ये किं कारणम् । o सत्यम् , किन्तु चतसृणामपि वर्गणानां मध्येष्वेव नैरन्तर्येणैकोत्तरवृद्धिः प्राप्यते, अन्तरालेषु पुनस्तस्यास्त्रुटिसंभवे सत्येव भिन्नवर्गणा रम्भः, अन्यद् वा किश्चिद्वर्णादिपरिणामवैचित्र्यं तद्भेदारम्भे कारणम् , इति बहुश्रुता विदन्तीति । एवं वक्ष्यमाणतनुवर्गणास्वपि वाच्यमिति । एतासां चतसृणां ध्रुवानन्तरवर्गणानामुपरि प्रत्येकमेकोत्तरवृद्धियुक्तानन्तवर्गणात्मिकाश्चतस्त्र एव तनुवर्गणा भवन्ति । एताश्च तनूनामौदारिकादिशरीराणां भेदा-ऽभेदपरिणामाभ्यां योग्यत्वाभिमुखा इति तनुवर्गणा देहवर्गणा उच्यन्ते । अथवा, वक्ष्यमाणमिश्रस्क१ गाथा ६३८ । २ धुवानन्तराणि चत्वारि यद् ध्रुवाण्यनन्तराणि वा । भेदपरिणामतो याः शरीरयोग्यत्वाभिमुखाः ॥ ६४१ ।। स्कन्धद्विकदेहयोग्यत्वेन वा देहवर्गणा इति । सूक्ष्मो दरगतबादरपरिणामो मिश्रकस्कन्धः ॥ ६५२॥ Jan Education Internatio For Personal and Private Use Only H ww.jaineltrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy