________________
विशेषा०
॥३३५॥
Jain Educationa Internation
तस्यैव ग्रहणवर्गणाः, पुनरेतावत्यमाणा एव तस्यैवाग्रहणवर्गणा वाच्याः । एवमाना-पानयो:, भाषायाः, तैजसस्य, आहारकस्य, वैक्रियस्य, औदारिकस्य चाऽयोग्य योग्यायोग्यवर्गणानां क्षेत्रतोऽपि प्रतिलोमं त्र्यं त्रयं प्रत्येकमायोजनीयमिति ।
ध्रुवादिवर्गणास्कन्धा अपि प्रत्येकमङ्गुला संख्येय भाग प्रदेशावगाहिनोऽवगन्तव्याः परं तच्चिन्तेह न कृता, जीवैः शरीरादौ कचिदप्यनुपयुज्यमानत्वेन ध्रुवादिवर्गणानामग्रहणात् । अथवा, कर्मणोऽग्रहणवर्गणानां मध्ये तासामप्यन्तर्भावो द्रष्टव्यः । द्रव्यवर्गणाधिकारे तु पृथगेतत्स्वरूपमात्र ज्ञापनार्थ विस्तरेण कृता तच्चिन्तेति मन्तव्यमिति । काल-भाववर्गणास्तु समयादिस्थितिमात्रं वर्णादिमात्रं चाङ्गीकृत्य सामान्येन वक्ष्यन्ते । अतस्ताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यत इति भावनीयमिति । तदेवमभिहिताः क्षेत्रवर्गणाः ।। ६४७-६४९ ।।
अथ कालवर्गणाः प्राह -
ऐगा समयदिईणं संखेज्जा संखसमयद्विइयाणं । होंति असंखेज्जाओ तओ असंखेज्जसमयाणं ॥ ६५० ॥ विवक्षितपरिणामेन य एकैकसमयमात्रस्थितयस्तेषां सर्वेषामप्येका वर्गणा, ते पुनरविशेषेण परमाणवः स्कन्धाश्च मन्तव्याः । एवमेकैकसमयवृद्ध्या संख्येयसमयस्थितीनां परमाण्वादीनां संख्येया वर्गणाः, असंख्येय समयस्थितीनां त्वसंख्येया वर्गणा भवन्ति । एवताभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, एकसमयाद्य संख्येयसमयान्तायाः स्थितेर्बहिः पुद्गलानां स्थितेरेवाभावादिति ।। ६५० ॥ अथ भाववर्गणाः प्राह
ऐगा एगगुणाणं एगुत्तरवुढिया तओ कमसो । संखेज्जगुणाण तओ संखेज्जा वग्गणा होंति ॥ ६५१ ॥ संखाईयगुणाणं संखाईया य वग्गणा तत्तो । होंति अनंतगुणाणं दव्वाणं वग्गणाऽणंता ॥ ६५२ ॥ -- वण्ण-रस-गंध-फरसाण होंति वीसं समासभेएणं । गुरुलहु-अगुरुलहूणं बायर-सुहुमाण दो वग्गा ॥ ६५३ ॥ एकगुणानामेकगुणकृष्णानामित्यर्थः, परमाणूनां स्कन्धानां च सर्वेषामप्येका वर्गणा, कृष्णवर्णगुणद्वययुक्तानां तु परमाण्वादीनां
१ एका समयस्थितीनां संख्येया संख्यसमयस्थितिकानाम् । भवन्त्यसंख्येयास्ततोऽसंख्येयसमयानाम् ॥ ६५० ।। २ एकैकगुणानामेको सरवर्धितास्ततः क्रमशः । संख्येयगुणानां ततः संख्येया वर्गणा भवन्ति ॥ ६५१ ॥ संयततिगुणानां संख्यातीताश्च वर्गणास्ततः । भवन्स्यनन्तगुणानां द्रव्याणां वर्गणा अनन्ताः ॥ ६५२ ॥ वर्ण-रस-गन्ध स्पर्शानां भवन्ति विंशतिः समासभेदेन । गुरुलध्व-गुरुलधूनां बादर-सूक्ष्माणां द्वौ वर्गों ॥। ६५३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ३३५॥
www.jainelibrary.org