________________
विशेषा.
वृहद्वतिः ।
॥३३६॥
द्वितीया वर्गणा, कृष्णवर्णगुणत्रययुक्तानां तु तेषां तृतीया वर्गणा । एवमेकैकगुणवृक्या संख्येयकृष्णवर्णगुणानां संख्येया वर्गणाः, असंख्येयकृष्णवर्णगुणानामसंख्येया वर्गणाः, अनन्तकृष्णवर्णगुणानामनन्ता वर्गणा भवन्ति । एवमेकगुणनीलानां, संख्येयगुणनीलानाम् , असंख्येयगुणनीलानां, अनन्तगुणनीलानामपि वाच्यम् । एवं कृष्ण-नील-लोहित-हारिद्र-शुक्ललक्षणाः पञ्च वर्णाः, सुरभी-तरौ द्वौ गन्धौ, तिक्त-कटु-कषाया-ऽऽम्ल-मधुराः पञ्च रसाः, कर्कश-मृदु-गुरु-लघु-शीतोष्ण-स्निग्ध-रूक्षास्त्वष्टौ स्पर्शाः । एवमेतेषु वर्ण-गन्धादिगतविंशतिभेदेषु प्रत्येकं सर्वत्रैकगुणानामेका, संख्येयगुणानां संख्येयाः, असंख्येयगुणानामसंख्येयाः, अनन्तगुणानामनन्तवर्गणा वाच्याः। नवरं यो यत्र वर्ण-गन्धादिभेदस्तत्र तदभिलापः कार्य इति । तथा, गुरुलघुपर्यायाणां बादरपरिणामान्वितवस्तूनामेका वर्गणा, अगुरुलघुपर्यायाणां तु सूक्ष्मपरिणामपरिणतवस्तूनामेका वर्गणा, एवमेतौ दावेव वर्गों भवतः । तदेवमेताभिर्भाववगणाभिः सर्वोऽपि पुद्गलास्तिकायः संगृह्यते, यथोक्तवर्णादिभावेभ्योऽन्यत्र पुद्गलानामभावादिति ॥ ६५१ ॥ ६५२ ॥ ६५३ ॥
तदेवं द्रव्य-क्षेत्र-काल-भाववर्गणाः प्रतिपाद्य प्रकृतं स्मरयन्नुपसंहरन्नाह
भणियं तेया-भासाविमझदव्वावगाहपरिमाणं । ओहिन्नाणारंभो परिणिट्ठाणं च तं जेसु ॥६५४ ॥
तदेवं भणितं प्रतिपादितम् । किम् ?, इत्याह- तैजस-भाषयोर्विमध्येऽन्तराले यानि तदयोग्यद्रव्याणि तेषामवगाहपरिमाणं, उपलक्षणत्वादनन्तपरमाणुप्रचितस्कन्धात्मकत्वादिकं तत्स्वरूपं चोक्तम् । येषु द्रव्येषु किम् ?, इत्याह- येववाधिज्ञानस्यारम्भः प्रथमोपत्तिलक्षणः, परिनिष्ठानं च प्रतिपतनं तत्-समयप्रसिद्धं येषु । इदमुक्तं भवति- 'तेया-भासादब्वाण अंतरा एत्थ लभइ पट्टवओं' इत्युपजीव्य पूर्व विनयेन पृष्टम्- तैजस-भाषान्तराले यदयोग्यं द्रव्यं तत् कतमस्वरूपं, कतिप्रदेशावगाढं च ? इति । अस्य च शिष्यप्रश्नस्य गुरुणौदारिकवर्गणाः प्ररूपयता दत्तमुत्तरमिति ॥ ६५४ ॥
___ इह च गुरुलघु, अगुरुलघु च द्रव्यमवधिः प्रथमं पश्यतीति पूर्वमुक्तम् , तत्र गुरुलघुद्रव्यारब्धस्य, अगुरुलघुद्रव्यारब्धस्य चावधेर्यत् स्वरूपं भवति, तद् दर्शयन्नाह
गुरुलहुदव्वारद्धो गुरुलहुदवाई पिच्छिउं पच्छा । इयराइं कोइ पेच्छइ विसुज्झमाणो कमेणेव ॥ ६५५ ॥
||३३६॥
, भणितं लैजस-भाषाविमध्यव्यावगाहपरिमाणम् । अवधिज्ञानारम्भः परिनिष्ठानं च तब येषु ॥ ६५४ ॥ २ गाथा ६२७ । ३ गुरुलघुदव्यारब्धो गुरुलधुद्रव्याणि प्रेक्ष्य पश्चात् । इतराणि कश्चित् प्रेक्षते विशुध्यमानः क्रमेणैव ॥ ६५५ ॥
सातारा
For Personal and Private Use Only