Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PEPPERIPE
विशेषा
॥३३०॥
आह- कथं पुनरेकैकस्यौदारिकादेः पृथक् त्रयं त्रयमिदं लभ्यते ?, इत्याह
एक्केकरसाईए पजंतम्मि य हवंति जोग्गाइं । उभयाजोग्गाई जओ तेया-भासंतरे पढइ ॥ ६३७ ॥ एकैकस्यौदारिक-वैक्रियादेरादौ पर्यन्ते चाऽयोग्यानि द्रव्याणि भवन्तीति लभ्यत एव । कुतः ?। उच्यते-"तेया-भासादवाण अंतरा' इत्यादिवचनाद् यतस्तैजस-भाषयोरन्तरे उभयायोग्यानि द्रव्याणि पठति । इदमुक्तं भवति- यतस्तैजसस्यान्तेऽयोग्यद्रव्याणि पठति, अतः सर्वस्याऽप्यौदारिकादेरन्ते तानि लभ्यन्ते; यतश्च भाषाया आदौ तदयोग्यान्यधीते, अतः सर्वस्याऽप्यौदारिकादेरादौ तानि गम्यन्ते; उभयान्तरालवर्तिनां च सर्वेषामुपयायोग्यत्वे तुल्येऽपि यथासन्नं तत्तदाभासत्वेन तत्तदयोग्यव्यपदेश इत्युक्तमेव ।। इति गाथाषट्रार्थः ॥६३७॥
अथ कर्माग्रहणवर्गणानामुपर्यन्या वर्गणाः सन्ति, नवा ?, इत्याह
कम्मोवरिं धुवेयर-सुण्णेयरवग्गणा अणंताओ। चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो॥ ६३८ ॥ इयं नियुक्तिगाथा, एतां च भाष्यकारः स्वयमेव विस्तरतो व्याख्यास्यतीति ॥ ६३८॥ तथा च भाष्यम्"निच्चं होति धुवाओ इयरा लोए न होति वि कयाई । एकोत्तरवुड्ढीए कयाइ सुण्णंतराओ वि ॥ ६३९ ॥
जाओ हवंति ताओ सुण्णंतरवग्गण त्ति भण्णंति । निययं निरंतराओ होंति असुण्णंतरा उत्ति ॥ ६४ ॥
कर्मणो ग्रहणप्रायोग्यवर्गणानामुपर्यधिकैकपरमाणपचितातिसूक्ष्मपरिणामानन्तस्कन्धात्मिका प्रथमा ध्रुववर्गणा भवन्ति । ततश्चैकोत्तरवृद्धचा वर्धमानः प्रत्येकमनन्तैः स्कन्धैर्निष्पन्ना एता अपि ध्रुववर्गणा अनन्ता भवन्ति । ध्रुवा नित्या लोकव्यापितया सर्वकालावस्थायिन्य इति भावः; अन्तदीपकं चेदम् । ततश्चैतासां ध्रुवत्वमणनेन प्रागुक्ता अपि कर्मवर्गणान्ताः सर्वा एव वर्गणा ध्रुवा इत्यवगन्तव्यम् , तासामपि सर्वत्र लोके सदैवाऽव्यवच्छेदात् । अन्यच्च, एतोश्च ध्रुववर्गणा वक्ष्यमाणाश्चाऽध्रुवाद्या सर्वा अप्यग्रहणवर्गणाः, अति
एकैकस्यादी पर्यन्ते च भवन्ति योग्यानि । उभयायोग्यानि यतस्तैजस-भाषान्तरे पठति ॥ ३० ॥२ गाथा ६२७ । ३ कमोपरि अवतर-शून्येतरवर्गणा अनन्ताः । चतुर्बुवानन्तरतनुवर्गणा च मिश्रस्तथाऽचित्तः ॥ ३८॥ ५ नित्यं भवन्ति भुवा इतरा होके न भवन्त्यपि कदाचित् । एकोत्तरवृद्धया कदापिच्छ्न्यान्तरा अपि ॥ ३९॥ या भवन्ति ताः शून्येतरवर्गणा इति भण्यन्ते । नियतं निरन्तरास्तु भवन्त्यशून्यान्तरास्त्विति ॥ ६४०॥ ५ घ.छ. 'ता ध्रु'।
॥३३०॥
SARIORDIDIOS
Jan Education Intematon
For Dev
enty
Nww.jainelibrary.org
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202