Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 131
________________ विशेषा० ॥३२९॥ चतुष्पदशिकस्कन्धानां चतुर्थी, पञ्चपदेशिकस्कन्धानां पश्चमी, पदप्रदेशिकस्कन्धानां षष्ठी ; एवमेकैकोत्तरदृद्ध्याऽनन्ता वर्गणा औदारिकशरीरस्याऽग्रहणयोग्या विलयात्रान्तरे तथाविधविशिष्टपरिणामपरिणतानन्तप्रदेशिकस्कन्धानामेकोत्तरवृद्ध्यौदारिकशरीरग्रहणप्रायोग्या बृहद्वत्तिः । अनन्ता वर्गणा भवन्ति- औदारिकशरीरनिर्वर्तनयोग्या इत्यर्थः। ततः प्रदेशवृद्ध्या वर्धमाना औदारिकस्यैवाग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाचौदारिकस्याऽग्रहणयोग्या मन्तव्याः। इह च स्वल्पपरमाणुनिप्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियस्याऽप्यग्रहणयोग्या एवैताः, केवलमौदारिकवर्गणानामासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्या उच्यन्त इति ॥ ६३३ ।। ६३४ ॥ ६३५॥ अथ कार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह ऐवमजोग्गा जोग्गा पुणो अजोग्गा य वग्गणाणता । वेउब्वियाइयाणं नेयं तिविगप्पमिक्केक्कं ॥ ६३६ ॥ एवमुक्तानुसारेणाऽयोग्याः, ततो योग्याः, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति । एक वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनपान-मनः-कर्मणामेकैकं त्रिविकल्पं त्रिभेदं ज्ञेयम् । इति गाथाऽक्षरार्थः। भावार्थस्तूच्यते- पुनरौदारिकाग्रहणप्रायोग्यवर्गणानामुपर्येकोत्तरवृद्ध्या वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामत्वाच्चौदारिकस्याऽप्यग्रहणप्रायोग्या एव, केवलं वैक्रियवर्गणासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्यवर्गणाः प्रोच्यन्त इति । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा ? भवन्ति । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्नि । ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरदृद्धया वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात् तथाविधसूक्ष्मतरपरिणामत्वाच्चाऽऽहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोचरवृद्धया वर्धमाना बहुतमद्रव्यनित्तत्वादतिसूक्ष्मपरिणामत्वाच्चाऽऽहारकशरीरस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तैजसस्य, भाषायाः, आना-ऽपानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशद्ध्युपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक् पृथक् त्रयमायोजनीयमिति ॥ ६३६ ॥ १ एवमयाग्या योग्याः पुनरयोग्याश्च वर्गणा अनन्ताः । वैक्रियादिकाना शेयं त्रिविकल्पमेकैकम् ॥ ५३६ ॥ Poes ॥३२९॥

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202