________________
विशेषा० ॥३२९॥
चतुष्पदशिकस्कन्धानां चतुर्थी, पञ्चपदेशिकस्कन्धानां पश्चमी, पदप्रदेशिकस्कन्धानां षष्ठी ; एवमेकैकोत्तरदृद्ध्याऽनन्ता वर्गणा औदारिकशरीरस्याऽग्रहणयोग्या विलयात्रान्तरे तथाविधविशिष्टपरिणामपरिणतानन्तप्रदेशिकस्कन्धानामेकोत्तरवृद्ध्यौदारिकशरीरग्रहणप्रायोग्या बृहद्वत्तिः । अनन्ता वर्गणा भवन्ति- औदारिकशरीरनिर्वर्तनयोग्या इत्यर्थः। ततः प्रदेशवृद्ध्या वर्धमाना औदारिकस्यैवाग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रभूतद्रव्यनिष्पन्नत्वात् सूक्ष्मपरिणामोपेतत्वाचौदारिकस्याऽग्रहणयोग्या मन्तव्याः। इह च स्वल्पपरमाणुनिप्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियस्याऽप्यग्रहणयोग्या एवैताः, केवलमौदारिकवर्गणानामासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्या उच्यन्त इति ॥ ६३३ ।। ६३४ ॥ ६३५॥
अथ कार्मणपर्यन्तानां शेषवर्गणानामतिदेशमाह
ऐवमजोग्गा जोग्गा पुणो अजोग्गा य वग्गणाणता । वेउब्वियाइयाणं नेयं तिविगप्पमिक्केक्कं ॥ ६३६ ॥
एवमुक्तानुसारेणाऽयोग्याः, ततो योग्याः, पुनरयोग्याः प्रत्येकमनन्ता वर्गणा इति । एक वैक्रिया-ऽऽहारक-तैजस-भाषा-ऽऽनपान-मनः-कर्मणामेकैकं त्रिविकल्पं त्रिभेदं ज्ञेयम् । इति गाथाऽक्षरार्थः।
भावार्थस्तूच्यते- पुनरौदारिकाग्रहणप्रायोग्यवर्गणानामुपर्येकोत्तरवृद्ध्या वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामयुक्तत्वाच्च वैक्रियशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एताश्च प्रचुरद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामत्वाच्चौदारिकस्याऽप्यग्रहणप्रायोग्या एव, केवलं वैक्रियवर्गणासन्नत्वेन तदाभासत्वात् तदग्रहणयोग्यवर्गणाः प्रोच्यन्त इति । एवमुत्तरत्रापि सर्वत्र भावनीयम् । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिर्वृत्तत्वात्तथाविधसूक्ष्मपरिणामत्वाच्च वैक्रियशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा ? भवन्ति । ततश्चैकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यत्वात् सूक्ष्मतरपरिणामत्वाच्च वैक्रियस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्नि । ततो वैक्रियाग्रहणयोग्यवर्गणानामनन्तरमेकोत्तरदृद्धया वर्धमानाः स्वल्पद्रव्यनिष्पन्नत्वाद् बादरपरिणामत्वाच्चाऽऽहारकशरीरस्याग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततश्चकोत्तरवृद्ध्या वर्धमानाः प्रचुरद्रव्यनिष्पन्नत्वात् तथाविधसूक्ष्मतरपरिणामत्वाच्चाऽऽहारकशरीरस्य ग्रहणयोग्या अनन्ता वर्गणा भवन्ति । ततोऽप्येकोचरवृद्धया वर्धमाना बहुतमद्रव्यनित्तत्वादतिसूक्ष्मपरिणामत्वाच्चाऽऽहारकशरीरस्याऽग्रहणयोग्या अनन्ता वर्गणा भवन्ति । एवं तैजसस्य, भाषायाः, आना-ऽपानयोः, मनसः, कर्मणश्च यथोत्तरमेकोत्तरप्रदेशद्ध्युपेतानां प्रत्येकमनन्तानामयोग्यानां योग्यानां पुनरयोग्यानां वर्गणानां पृथक् पृथक् त्रयमायोजनीयमिति ॥ ६३६ ॥
१ एवमयाग्या योग्याः पुनरयोग्याश्च वर्गणा अनन्ताः । वैक्रियादिकाना शेयं त्रिविकल्पमेकैकम् ॥ ५३६ ॥
Poes
॥३२९॥