________________
वृहदृत्तिः ।
विशेषा० ॥३२॥
PAPERPAGAINSPIROICICIOLOGalleloPE
PORod
कुइयण्णगोविसेसोवलक्खणोवम्मओ विणेयाणं । दव्वाइवग्गणाहिं पोग्गलकायं पेयंसेंति ॥ ६३२ ॥
आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ? । उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थं द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गाथाक्षरार्थः ॥
अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकणों नाम गृहपतिरासीत् । स च तासां गवामतिबहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांश्चके । ते च तासु परस्परं मीलितासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्षुः । तांश्च तथाऽन्योन्यं विवदमानानुपलभ्याऽसौ तेपामव्यामोहार्थं कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृष्टान्तः । अथोपनय उच्यते- इह गोमण्डलप्रभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहाथै परमाण्वादिवर्गणादिविभागेन निरूपितवानिति ॥ ६३२ ॥
एता एव वर्गणाः 'ओराल-विउव्य-' इत्यादिगाथा व्याचिख्यासुर्निरूपयितुमाह*एगा परमाणूणं एगुत्तरवड्ढिया तओ कमसो । संखेजपएसाणं संखेज्जा वग्गणा होति ॥ ६३३ ॥
तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ ६३४ ॥ - ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गहणप्पाओग्गा तस्सेव तओ अणंताओ ॥६३५॥
इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः। ततश्च समस्तलोकाकाशप्रदेशवर्तिनायेकैकपरमाणूनां समुदाय एका वर्गणा | ततः समस्तलोकवर्तिनां द्विपदशिकस्कन्धानां द्वितीया वर्गणा । ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया,
१ विकणग्नेविशेषोपलक्षणीपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति ॥ ३२॥ २ प. छ. 'पयासंति' स. 'पर्यसति । ३ गाथा ६३१ । ४ एका परमाणूनामकोत्तरवर्धितास्ततः क्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ ६३३ ॥
ततः संख्येया-ऽसंख्येयप्रदेशमानानाम् । ततः पुनरनन्तानन्तप्रदेशानां गत्वा ॥ ३४ ॥ औदारिकस्य ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ ३५ ॥
PAR
॥३२८॥
PAPERRE
सहस
For Personal and
Use Oy