Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 130
________________ वृहदृत्तिः । विशेषा० ॥३२॥ PAPERPAGAINSPIROICICIOLOGalleloPE PORod कुइयण्णगोविसेसोवलक्खणोवम्मओ विणेयाणं । दव्वाइवग्गणाहिं पोग्गलकायं पेयंसेंति ॥ ६३२ ॥ आह- किमर्थं पुनरेता वर्गणाः प्ररूप्यन्ते ? । उच्यते- कुविकर्णस्य गोमण्डलाधिपतेर्गावस्तासां परस्परं विशेषस्य यदुपलक्षणं परिज्ञानं तदौपम्यात् तदृष्टान्ताद् विनेयानामसंमोहार्थं द्रव्यादिवर्गणाभिः, आदिशब्दात् क्षेत्रवर्गणाभिः, कालवर्गणाभिः, भाववर्गणाभिश्च समस्तमपि पुद्गलास्तिकार्य विभज्य तीर्थकर-गणधराः प्रदर्शयन्ति ॥ इति गाथाक्षरार्थः ॥ अथ भावार्थ उच्यते- इह भरतक्षेत्रे मगधजनपदे प्रभूतगोमण्डलस्वामी कुविकणों नाम गृहपतिरासीत् । स च तासां गवामतिबहुत्वात् सहस्रादिसंख्यापरिमितानां पृथक् पृथगनुपालनार्थ प्रभूतान् गोपालांश्चके । ते च तासु परस्परं मीलितासु गोष्वात्मीया आत्मीयाः सम्यगजानन्तः सन्तो नित्यं कलहमकार्षुः । तांश्च तथाऽन्योन्यं विवदमानानुपलभ्याऽसौ तेपामव्यामोहार्थं कलहव्यवच्छित्तये शुक्ल-कृष्ण-रक्त-कर्बुरादिभेदभिन्नानां गवां प्रतिगोपालं सजातीयगोसमुदायरूपा भिन्ना वर्गणा व्यवस्थापितवानिति । एष दृष्टान्तः । अथोपनय उच्यते- इह गोमण्डलप्रभुकल्पस्तीर्थकरो गोपतुल्येभ्यः स्वशिष्येभ्यो गोसमूहमानं पुद्गलास्तिकायं तदसंमोहाथै परमाण्वादिवर्गणादिविभागेन निरूपितवानिति ॥ ६३२ ॥ एता एव वर्गणाः 'ओराल-विउव्य-' इत्यादिगाथा व्याचिख्यासुर्निरूपयितुमाह*एगा परमाणूणं एगुत्तरवड्ढिया तओ कमसो । संखेजपएसाणं संखेज्जा वग्गणा होति ॥ ६३३ ॥ तत्तो संखाईआ-संखाइयप्पएसमाणाणं । तत्तो पुणो अणंताणंतपएसाण गंतूणं ॥ ६३४ ॥ - ओरालियस्स गहणप्पाओग्गा वग्गणा अणंताओ । अग्गहणप्पाओग्गा तस्सेव तओ अणंताओ ॥६३५॥ इह सजातीयवस्तुसमुदायो वर्गणा, समूहो, वर्गः, राशिः, इति पर्यायाः। ततश्च समस्तलोकाकाशप्रदेशवर्तिनायेकैकपरमाणूनां समुदाय एका वर्गणा | ततः समस्तलोकवर्तिनां द्विपदशिकस्कन्धानां द्वितीया वर्गणा । ततः समस्तानामपि त्रिप्रदेशिकस्कन्धानां तृतीया, १ विकणग्नेविशेषोपलक्षणीपम्यतो विनेयानाम् । द्रव्यादिवर्गणाभिः पुद्गलकार्य प्रदर्शयन्ति ॥ ३२॥ २ प. छ. 'पयासंति' स. 'पर्यसति । ३ गाथा ६३१ । ४ एका परमाणूनामकोत्तरवर्धितास्ततः क्रमशः । संख्येयप्रदेशानां संख्येया वर्गणा भवन्ति ॥ ६३३ ॥ ततः संख्येया-ऽसंख्येयप्रदेशमानानाम् । ततः पुनरनन्तानन्तप्रदेशानां गत्वा ॥ ३४ ॥ औदारिकस्य ग्रहणप्रायोग्या वर्गणा अनन्ताः । अग्रहणप्रायोग्यास्तस्यैव ततोऽनन्ताः ॥ ३५ ॥ PAR ॥३२८॥ PAPERRE सहस For Personal and Use Oy

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202