Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 122
________________ विशेषा० बृहदत्तिः । ॥३२०॥ SO भासह न्याकाशखण्डानि' इति गम्यते, अतीत्य गत्वा स्पृष्टा वेति, तिष्ठत्युपरमते । इदमवधेरुत्कृष्ट क्षेत्र विषय इति ॥ ६०३ ॥६०४॥ आह- ननु 'रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषयः ?, इत्याशङ्क्याहसामत्थमेत्तमेयं जइ दट्ठव्वं हवेज, पेच्छेज्जा । न य तं तत्थत्थि जओ सो रूविनिबंधणो भाणओ ॥६०५॥ यदवधेरेतावत् क्षेत्रं विषय उच्यते, तदेतत् तस्य सामर्थ्यमात्रमेव कीर्त्यते । कोऽर्थः?, इत्याह-यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भवेत्। तदा पश्येदवधिज्ञानी । न च तद् द्रष्टव्यं तत्राऽलोके समस्ति, यतोऽयमवधिस्तीर्थकर-गणधरै रूपिद्रव्यनिबन्धनो भणितः, तच्च रूपिद्रव्यमलोके नास्त्येवेति ॥ ६०५॥ आह- यद्येवम् , लोकप्रमाणोऽवधिर्भूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् बहिरप्यसौ वर्धते तस्य तदृद्धः किं फलं, लोका बहिर्द्रष्टव्याभावात् , इत्याशक्याह वड्ढतो उण बाहिं लोयत्थं चेव पासई दव्वं । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥ ६०६ ॥ लोकाद् बहिष्पुनर्विशुद्धिवशाद् वर्धमानोऽवधिलोकस्थमेवाऽधिकमधिकतरं च द्रव्यं पश्यति । कथंभूतम्?, सूक्ष्म, सूक्ष्मतरं, सूक्ष्मतम यावत् परमावधिः सर्वसूक्ष्म परमाणुमपि पश्यति, इति तद्वृद्धेस्तात्त्विकं फलमिति । अलोके तु लोकप्रमाणासंख्येयखण्डेषु द्रव्यदर्शनसामर्थ्यमेव तस्येति । अन्यकर्तकेयं प्रक्षेपगाथा, सोपयोगेति च व्याख्यातेति ॥ ६०६ ॥ तदेवं जघन्यमुत्कृष्टं चाभिहितमवधेविषयभूतं क्षेत्रम् । एतस्माचान्यत् सर्व विमध्यममिति सामर्थ्याद् गम्यत एव, केवलं यद् यत्र विमध्यमे क्षेत्रविशेषे कालमानं भवति, यावति च काले यद् विमध्यम क्षेत्रं भवति, इत्यभिधित्सुः प्रस्तावनामाह भणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयरस कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥६०७॥ गतार्थैव, नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवति, इत्यप्यभिधास्यत इति द्रष्टव्यम् ॥ इति गाथानवकार्थः।।६०७॥ यथाप्रतिज्ञातमेवाह , सामर्थ्यमात्रमेतद् यदि द्रष्टयं भवेत् , प्रेक्षेत । न च तत् तत्रास्ति यतः स रूपिनिवन्धनो भणितः ॥ ६०५॥ २ वर्धमानः पुनहिलोंकस्थमेव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधियांवत् परमाणुम् ॥ १०॥ ३ भणितं जघन्यमुस्कृष्टं च क्षेत्रं विमध्यम श्रेषम् । एतस्य कालमानं वक्ष्ये यद् यस्मिन् क्षेत्रे ॥ १०७॥ ॥३२॥ For Pesond ere

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202