________________
विशेषा०
बृहदत्तिः ।
॥३२०॥
SO
भासह
न्याकाशखण्डानि' इति गम्यते, अतीत्य गत्वा स्पृष्टा वेति, तिष्ठत्युपरमते । इदमवधेरुत्कृष्ट क्षेत्र विषय इति ॥ ६०३ ॥६०४॥
आह- ननु 'रूपिद्रव्याण्येवावधिः पश्यति' इति गीयते, क्षेत्रं त्वमूर्तत्वात् कथं तद्विषयः ?, इत्याशङ्क्याहसामत्थमेत्तमेयं जइ दट्ठव्वं हवेज, पेच्छेज्जा । न य तं तत्थत्थि जओ सो रूविनिबंधणो भाणओ ॥६०५॥
यदवधेरेतावत् क्षेत्रं विषय उच्यते, तदेतत् तस्य सामर्थ्यमात्रमेव कीर्त्यते । कोऽर्थः?, इत्याह-यद्येतावत्क्षेत्रे द्रष्टव्यं किमपि भवेत्। तदा पश्येदवधिज्ञानी । न च तद् द्रष्टव्यं तत्राऽलोके समस्ति, यतोऽयमवधिस्तीर्थकर-गणधरै रूपिद्रव्यनिबन्धनो भणितः, तच्च रूपिद्रव्यमलोके नास्त्येवेति ॥ ६०५॥
आह- यद्येवम् , लोकप्रमाणोऽवधिर्भूत्वा यस्य पुरतो विशुद्धिवशतो लोकाद् बहिरप्यसौ वर्धते तस्य तदृद्धः किं फलं, लोका बहिर्द्रष्टव्याभावात् , इत्याशक्याह
वड्ढतो उण बाहिं लोयत्थं चेव पासई दव्वं । सुहुमयरं सुहुमयरं परमोही जाव परमाणुं ॥ ६०६ ॥ लोकाद् बहिष्पुनर्विशुद्धिवशाद् वर्धमानोऽवधिलोकस्थमेवाऽधिकमधिकतरं च द्रव्यं पश्यति । कथंभूतम्?, सूक्ष्म, सूक्ष्मतरं, सूक्ष्मतम यावत् परमावधिः सर्वसूक्ष्म परमाणुमपि पश्यति, इति तद्वृद्धेस्तात्त्विकं फलमिति । अलोके तु लोकप्रमाणासंख्येयखण्डेषु द्रव्यदर्शनसामर्थ्यमेव तस्येति । अन्यकर्तकेयं प्रक्षेपगाथा, सोपयोगेति च व्याख्यातेति ॥ ६०६ ॥
तदेवं जघन्यमुत्कृष्टं चाभिहितमवधेविषयभूतं क्षेत्रम् । एतस्माचान्यत् सर्व विमध्यममिति सामर्थ्याद् गम्यत एव, केवलं यद् यत्र विमध्यमे क्षेत्रविशेषे कालमानं भवति, यावति च काले यद् विमध्यम क्षेत्रं भवति, इत्यभिधित्सुः प्रस्तावनामाह
भणियं जहण्णमुक्कोसयं च खेत्तं विमज्झिमं सेसं । एयरस कालमाणं वोच्छं जं जम्मि खेत्तम्मि ॥६०७॥ गतार्थैव, नवरमुपलक्षणत्वादिह यावति काले यद्विमध्यमं क्षेत्रं भवति, इत्यप्यभिधास्यत इति द्रष्टव्यम् ॥ इति गाथानवकार्थः।।६०७॥ यथाप्रतिज्ञातमेवाह
, सामर्थ्यमात्रमेतद् यदि द्रष्टयं भवेत् , प्रेक्षेत । न च तत् तत्रास्ति यतः स रूपिनिवन्धनो भणितः ॥ ६०५॥ २ वर्धमानः पुनहिलोंकस्थमेव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधियांवत् परमाणुम् ॥ १०॥ ३ भणितं जघन्यमुस्कृष्टं च क्षेत्रं विमध्यम श्रेषम् । एतस्य कालमानं वक्ष्ये यद् यस्मिन् क्षेत्रे ॥ १०७॥
॥३२॥
For Pesond
ere