________________
N
अंगुलमावलियाणं भागमसैखिज दोसु संखिज्जा । अंगुलमावलियंतो आवलिया अंगुलपुंहुत्तं ॥ ६०८ ॥ विशेषा.
हत्थम्मि मुहुत्तंतो दिवसंतो गाउयम्मि बोधव्वो। जोयण दिवसपुहत्तं पक्खंतो पण्णवीसाओ ॥ ६०९॥ ॥३२॥
भरहम्मि अद्धमासो जंबुद्दीवम्मि साहिओ मासो । वासं च मणुयलोए वासऍहुत्तं च रुयगम्मि ॥ ६१० ॥
अङ्गुल क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते । 'अवध्यधिकारादुच्छ्याङ्गुलं' इति च केचिदिति । असंख्येयसमयसंघातात्मकः कालविशेष आवलिका । अङ्गुलं चावलिका चाङ्गुला-ऽऽवलिके, तयोरङ्गुला-ऽऽवलिकयोर्भागमसंख्येयं पश्यत्यवधिज्ञानी । एतदुक्तं भवतिक्षेत्रमङ्गुलासंख्येयभागमात्रं पश्यन् कालत आवलिकाया असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति । क्षेत्र-कालदर्शनं चोपचारेणोच्यते; अन्यथा हि क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि, तत्पयायांश्च विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिः, न तु क्षेत्र-कालौ, मूर्तद्रव्यालम्बनत्वात् तस्येति । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । क्रिया चेह गाथात्रयेऽप्यध्याहाराद् दृश्येति । 'दोसु सखिज त्ति' द्वयोरगुला-ऽऽवलिकयोः संख्येयौ भागौ पश्यति- अङ्गुलसंख्येयभागमात्र क्षेत्रं पश्यन्नावलिकायाः संख्येयमेव भागं पश्यती
त्यर्थः । 'अंगुलमावलियंतो ति' अङ्गुलं पश्यन् क्षेत्रतः, कालत आवलिकान्तः- भिन्नामावलिकां पश्यतीत्यर्थः । 'आवलिया Hot अंगुलपुहुत्तं ति' कालत आवलिकां वीक्षमाणः क्षेत्रतोऽङ्गुलपृथक्त्वं पश्यति । पृथक्त्वं च समयपरिभाषया द्विप्रभृत्यानवभ्यः
सर्वत्र द्रष्टव्यमिति । 'हत्थम्मि मुहुत्तंतो' क्षेत्रतो हस्तप्रमाणक्षेत्रविषयोऽवधिः कालतो मुहूर्तान्तः- भिन्न मुहूर्त पश्यतीत्यर्थः। 'दिवसंतो इत्यादि कालतो दिवसान्त:-भिन्नं दिवसं वीक्षमाणः क्षेत्रतो गव्यूतविषयो बोद्धव्यः । 'जोयण दिवसपुहुत्तं ति' योजनक्षेत्रविषयोनधिः कालतो दिवसपृथक्त्वं पश्यति । 'पक्खंतो इत्यादि' कालतः पक्षान्तः-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति। 'भरहम्पीत्यादि' भरतक्षेत्रविषयेऽवधौ कालतोर्धमासस्तद्विषयत्वेन बोद्धव्यः । जम्बूद्वीपविषये तु साधिको मासः। अर्धतृतीयद्वीपसमुद्रलक्षणे मनुष्यलोके तु वर्ष संवत्सरः । रुचकाख्यबाह्यद्वीपविषयेऽवधौ वर्षपृथक्त्वं तद्विषयत्वेनाऽवगन्तव्यम् । 'वर्षसहस्रं' इत्यन्ये । इति नियुक्तिगाथात्रयार्थः ॥ ६०८ ॥ ६०९॥ ६१०॥
कबहालखबहार
१ अगुला-5ऽवलिकयोभांगमसंख्येयं द्वयोः संख्येयौ । अङ्गुलमावलिकान्तरावलिकाऽगुलपृथक्त्वम् ॥ १०८॥
हस्ते मुहूतान्तर्दिवसान्तर्गब्यूते बोद्ध्यः । योजने दिवसपृथक्त्वं पक्षान्तः पञ्चविंशतिम् ॥ ६०९ ॥ - भरतेऽर्धमासो जम्बूद्वीपे साधिको मासः । वर्ष च मनुजलोके वर्षपृथक्त्वं च रुचके ॥६१०॥ २ प.छ.'संखेन' ।। प.छ. पुरतं' । ४ प.छ. ति का'।
॥३२॥
Holeso
Edua
intem
For Personal and Private Use Only
www.jaineitrary.org