________________
विशेषा ०
॥३१९॥
Jain Educationa Internatio
नन्वेकैकाकाशप्रदेशावगाढजीवधन प्रतर श्रेण्याक्रान्ताकाशप्रदेशानां संख्यारूपं गणितं तुल्यमेव । तथा, असंख्येयाकाशप्रदेशा
वगाढजीवधन - प्रतर- श्रेण्याक्रान्ताकाशदेशानामपि गणितं स्वस्थाने परस्परं तुल्यमेव तथाहि - यावत एकैकाकाशप्रदेशावगाहिनां जीवानां बृहद्वृत्तिः । घन आकाशप्रदेशानाक्रामति, प्रतरोऽपि तेषां तावत एव तानाक्रामति, सूचिरपि तेषां तावत एव तान् स्पृशति, संवृतप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदिति । एवमसंख्येयाकाशप्रदेशावगाढजीवधन प्रतर- श्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेति । अतोऽवगाहभेदद्वयभिन्नो घन एवाऽस्तु, प्रतरो वा, सूचिर्वेति षोढा तु विकल्पना षड्भेदानां कल्पनं किमिति क्रियते १ न युक्तेयमित्यभिप्रायः ।
अत्र सूरिराह - भण्यत उत्तरम् । किम् १, इत्याह- 'पुरिसपरिक्खेवओ भेउ त्ति' अस्त्यस्याः षड्धिकल्पनाया भेदः । कथम् १, इत्याह- पुरुषपरिक्षेपतः । इदमुक्तं भवति- नेह घनाद्याक्रान्ताकाशप्रदेशानां संख्या समत्व- विषयत्वे चिन्त्येते । किं तर्हि १, घनादीनां मध्याद्यः कश्चिद् रचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशति, स एवेह ग्राह्यः । एवं सत्यस्त्यमीषां भेदः, तथाहि एकैकप्रदेशावगाढजीवघनो भ्रम्यमाणो यावत् क्षेत्रं स्पृशति, तस्मादसंख्येयप्रदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति, ततोऽप्येकैकपदेशावगाढजीवप्रतरोऽसंख्येयगुणं, तस्मादप्य संख्येयप्रदेशावगाढजन्तुप्रतरोऽसंख्येयगुणम्, ततोऽप्येकैकपदेशावगाढजीवसूचिरसंख्येयगुणं, तस्मादप्यसंख्येयाकाशप्रदेशावगाढैकैकानिजविसूचिरवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणाऽसंख्येयगुणं क्षेत्रं स्पृशति, तच्चाऽलोके लोकप्रमाणान्यसंख्येयाकाशखण्डानि अत एतावदेवाऽवधेरुत्कृष्टं क्षेत्रं विषयं इति ॥ ६०२ ॥ उक्तमेवार्थ भाष्यकारेः स्वयमेवाह
निययावगाहणागणिजीवसरीरावली समंतेणं । भामिज्जइ ओहिन्नाणिदेहपज्जतओ सा य ॥ ६०३॥ अइगंतूण अलोगं लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिखेत्तमुक्कासं ॥ ६०४ ॥ निजका आत्मीया एकैकस्याऽसंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा, तानि च तानि अग्निजीवशरीराणि च तेषामावली पक्तिः सूचिरवधिज्ञानिनो देहपर्यन्तात् समन्तात् सर्वासु दिक्षु बुद्ध्या भ्राम्यते । सा चाऽलोके 'लोकप्रमाणमात्राण्यसंख्येया
१ क. ख. ग. 'र आह' । २ निजकावगाहनाग्निजीवशरीरावली समन्तात् । भ्राम्यतेऽवधिज्ञानि देहपर्यन्ततः सा च ॥ ६०३ ॥ अतिगत्या लोकं लोकाकाशप्रमाणमान्त्राणि । तिष्ठत्यसंख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥ ६०४ ॥
For Personal and Private Use Only
॥३१९॥
www.jainelibrary.org