________________
तैः सर्वैरप्यग्निजीवैः समचतुरस्रो घनो यतो विभेदः स्थाप्यते । कथम् ?, इत्याह-एकैकाकाशप्रदेश एकैकाग्निजीवरचनया स्वावगाहे चे देहासंख्येयाकाशप्रदेशलक्षण एकैकाग्निजीवरचनयेति । अत्र स्थापना
बृहद्वत्तिः ।
विशेषा० ॥३१८॥
__एतेषां नवानामग्निजीवानां प्रत्येकमेकैकाकाशप्रदेशैर्व्यवस्थापितानामधस्तादुपरिष्टाचाऽन्येऽपि नव नव जीवा इत्थमेव स्थाप्यन्ते ।
एष कल्पनया सप्तविंशत्या, सद्भावतस्त्वसंख्येयैरग्निजीवरकैकाकाशप्रदेशव्यवस्थापितैर्यनो मन्तव्यः। द्वितीयोऽपि घन इत्थमेव द्रष्टव्यः, HD केवलमिहासंख्येयाकाशप्रदेशेष्वकैकजीवो व्यवस्थाप्यते । एवमेकैकाकाशप्रदेशे एकैकजीवस्थापनयाऽसंख्येयप्रदेशात्मकवावगाहस्थापनया
च प्रतरोऽपि विभेदः । सूचिरपि विभेदा । तत्र घन-प्रतरपक्षश्चतुर्भेद, पञ्चमश्चैकैकाकाशप्रदेशस्थापितैकैकजीवलक्षणमूचिपक्षोऽपि न ग्राह्यः, दोषद्वयानुषङ्गात् , तथाहि-पश्चविधयाऽप्यनया स्थापनया स्थापिता अग्निजीवाः पदस्खपि दिक्ष्ववधिज्ञानिनोऽसत्कल्पनया भ्रम्यमाणाः स्तोकमेव क्षेत्रं स्पृशन्तीत्येको दोषः, एकैकाकाशप्रदेशे एकैकजीवस्थापनायामागमविरोधश्च द्वितीयदोषः, असंख्येयाकाशप्रदेशा| नन्तरेणाऽऽगमे जीवावगाहनिषेधात् । असत्कल्पनया प्रदेशावगाहोऽप्यस्त्विति चेत् । नैवम् , कल्पनाऽपि सति संभवेऽविरोधिन्येव कर्तव्या, किं विरोधेन ?, इत्यालोच्याह- 'छटो सुयाएसो त्ति' असंख्येयाकाशप्रदेशलक्षणे स्वावगाहे पङ्क्त्या एकैकजीवस्थापनेन यः मूचिलक्षणः षष्ठपक्षः, अयं श्रुते आदिष्टत्वाद् ग्राह्यः; शेषास्तु पश्चाऽनादेशाः संभवोपदर्शनमात्रेणोक्तत्वात् परिहार्याः । इयं हि यथोक्ता मूचिरेकैकजीवस्यासंख्येयाकाशप्रदेशावगाहे व्यवस्थापितत्वाद् बहुतरं क्षेत्रं स्पृशति, इत्येको गुणः; अवगाहविरोधाभावस्तु द्वितीयः । ततश्चैषाग्निजीवसूचिरवधिज्ञानिनः षस्वपि दिवसत्कल्पनया भ्रमिता सती अलोके लोकप्रमाणान्यसंख्येयखण्डानि स्पृशति । अत एतावदुत्कृष्टक्षेत्रमवधेविषय इत्युक्तं भवति; इत्यादि स्वयमेव वक्ष्यतीति ॥ ६०१॥
अत्र कश्चिदाहघेण-पयरसेढिगणियं नणु तुल्लं चिय, विगप्पणा कीस । छडा कीरइ, भण्णइ पुरिसपरिक्खेवओ भेओ ॥६०२॥
॥३१८॥
१५.छ. 'चासं' ।२ घन-प्रतरश्रेणिगणितं ननु तुल्यमेव, विकल्पना कस्मात् । षोढा क्रियते, भण्यते पुरुषपरिक्षेपतो भेदः ॥ ६०२ ॥
क
For send
en
dow.jaineltrary.org