________________
विशेषा०
बृहद्वत्तिः ।
॥३१७॥
अव्वाधाए सव्वासु कम्मभूमीसु जं तदारंभा । सव्वबहवो मणुस्सा होंतजियजिणिंदकालम्मि ॥५९९॥ ___ अव्याघाते- अनलजीवोत्पत्तेर्महादृष्टयादिव्याघाताभावे, सर्वासु समस्तभरतै-रावत-विदेहलक्षणासु पञ्चदशसु कर्मभूमिषु सर्वबहवो 'बादराग्निजीवा भवन्ति' इति प्रक्रमाल्लभ्यते । किमविशेषेण सर्वदैवैताखेते भवन्ति ?, न, इत्याह- आजितजिनेन्द्रकाले, अजितजिनेन्द्रस्योपलक्षणत्वादवसर्पिण्यां द्वितीयतीर्थकरकाल इत्यर्थः । किमिति तत्रैव बहवो भवन्ति ?, इत्याह- 'जमित्यादि' यद् यस्मात् तदारम्भास्तेषां बादराग्निजीवानां संधुक्षण-ज्वालनाद्यारम्भपराः सर्वबहवः सर्वेभ्योऽप्यतीता-ऽनागतेभ्यो बहवः प्रचुरा गर्भजमनुष्या भवन्ति स्वभावादेवेति ॥ ५९९ ॥
___आह- किमेतैरेव बादराग्निजीवैः सर्वबहग्निजीवपरिमाणं पूर्यते, आहोस्वित् सूक्ष्माग्निभिः सह ? । यदि तैः सह, तदा तेऽविशिष्टा अपि गृह्यन्ते, आहोखित् कचिदेव विशिष्टाः ?, इत्याह
उक्कोसया य सुहुमा जया तया सव्वबहुगमगणीणं । परिमाणं संभवओ तं छद्धा पूरणं कुणइ ॥ ६०० ॥
उत्कृष्टाश्च सूक्ष्माग्निजीवाः स्वभावत एव कथमपि यदा संभवन्ति, तदैवैतैर्बादराग्निजीवैः सह सर्वबहग्निजीवानां परिमाणं भवति । इदमत्र हृदयम्- अनन्तानन्तास्ववसर्पिणीषु मध्ये स एव कश्चिद् द्वितीयतीर्थकरकालो गृह्यते, यत्र मूक्ष्माग्निजीवा उत्कृष्टपदिनः प्राप्यन्ते । ततश्च तैर्बादरैः सूक्ष्मैश्वाग्निजीवैरुत्कृष्टपदिभिर्मीलितैः सर्वबहग्निजीवानां परिमाणं भवति । तच्च संभवतः संभवमात्रमाश्रित्य बुद्धया षोढा पद्मकारया रचनया व्यवस्थाप्यते । ततश्च बहुतरक्षेत्रपूरणं करोति । तत्र पश्चाऽनादेशाः, षष्ठस्तु श्रुतादेश इति ॥६००॥
एतदेवाहऐक्क्कागासपएसजीवरयणाए सावगाहे य । चउरंसघणं पयरं सेढी छट्ठो सुयाएसो ॥ ६०१॥
१ अग्याघाते सर्वासु कर्मभूमिषु यत् तदारम्भाः । सर्वबहवो मनुष्या भवन्स्यजितजिनेन्द्रकाले ॥ ५९९ ॥ २ उत्कृष्टाश्च सूक्ष्मा यदा सदा सर्वबहुकमनीनाम् । परिमाणं संभवतस्तत् पोहा पूरणं करोति ॥ ६०० ॥ ३ एकेकाकाशप्रदेशजीवरचनया स्वावगाहे च । चतुरनधनं प्रतरं श्रेणिः षष्ठः श्रुतादेशः ॥ ६०१॥
कसमयानसमयमारकर
॥३१७॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary