SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वृत्तिः । ॥३१६॥ समयाहारगस्स सुहुमस्स पणगजीवस्स' इति नियुक्तिकारवचनमाराधितं भवति । किञ्च, इह यथा सूक्ष्मः मूक्ष्मतरोऽसौ भवति तथा कर्तव्यम् , एतच्चास्मिन् व्याख्यानेऽतिसविशेष सिध्यतीति दर्शयति- 'उववाए चेवेत्यादि' उत्पादसमय एवं यतो यस्मात् तकोऽसौ पनकजीवो 'जघन्यः' इति जघन्यावगाहनो भवति, न शेषेषु समयेषु, द्वितीयादिष्वीषन्महत्वात् , जयन्यावगाहनश्च नियुक्तौ प्रोक्तः । ततोऽतिमूक्ष्मत्वसिद्धेस्तस्यानन्तरोक्तस्वरूपस्य पनकस्य देहस्तद्देहस्तत्समानमेव किलावधिविषयभूतं जघन्य क्षेत्रं भवतीति । ____ अत्र भाष्यगाथामन्तरेणापि पूर्वटीकाकारलिखित प्रतिविधानमुच्यते, तच्चैवम्-नयुक्तमिदं केषांचिद् व्याख्यानम्, त्रिसमयाहारकत्वस्य पनकविशेषणत्वेनोक्तत्वात् , मत्स्यसमयद्वयस्य च पनकसमयत्वायोगात् । योऽपीथमतिजघन्यावगाहनालाभलक्षणो गुण उद्भाव्यते, सोऽपि न युक्तः, यस्माद् नेहाऽतिमूक्ष्मेणाऽतिमहता वा किश्चित् प्रयोजनम् । किं तर्हि ?, योग्येन, योग्यश्च स एव तेद्वेत्तृभिदृष्टः, यः प्रथम जघन्यावगाहनः संस्तस्मिन्नेव भवे समयत्रयमाहारं गृह्णाति, इत्यलमतिविस्तरेण । इति गाथानवकार्थः । तदेवमवधिविषयभूतस्य जघन्यक्षेत्रस्य परिमाणमुक्तम् ॥ ५९६ ।। ५९७ ॥ अथोत्कृष्टस्य तस्य तदाह-- सव्वबहुअगणिजीवा निरंतरं जत्तियं भरिज्जंसु । खत्तं सव्वदिसागं परमोही खेत्तनिद्दिट्ठो ॥ ५९८ ॥ सर्वेभ्यो विवक्षितकालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्वबहवः, न तु भूत-भाविभ्यः, नापि च शेषजीवेभ्यः; कुतः १, असंभवादेवेतिअग्नयश्च ते जीवाश्चाग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबहग्निजीवाः, निरन्तरं संततं नैरन्तर्येणेत्यर्थः, यावदिति यत्पमाणं क्षेत्रमाकाशं वक्ष्यमाणविशिष्टसूचीरचनया रचिताः सन्तो भृतवन्तो व्याप्तवन्तः भूतकालनिर्देशश्च 'अजितस्वामिकाल एव वक्ष्यमाणयुक्त्या प्रायः सर्वबहवोऽनलजीवा भवन्त्यस्यामवसर्पिण्याम' इत्यस्याऽर्थस्य ख्यापनार्थः । इदं चानन्तरोक्तविशेषणं क्षेत्रमेकदिक्कमपि भवति, अत आह- 'सबदिसागं ति ' सर्वा दिशो यत्र तत् सर्वदिक्कम् । अनेन वक्ष्यमाणन्यायेन सर्वतः सूचीभ्रमणप्रमितं तदाह । परमश्वासाववाधिश्च परमावधिः, क्षेत्रमनन्तरव्यावर्णितं प्रभूतानलजीवप्रमितमङ्गीकृत्य निर्दिष्टः प्रतिपादितो महामुनिभिः । ततश्चावधेः पर्यायेणैतावत क्षेत्रमुत्कृष्टतो विषय इत्युक्तं भवति ॥ इति नियुक्तिगाथाक्षरार्थः ॥ ५९८ ॥ ___ भावार्थ तु सांप्रदायिकार्थप्रतिपादकभाष्यमुखेन भाष्यकार एवाह१ क, ख, ग, 'स्य दे'। २ क. ग. 'तद्धेतुभि'। ३ सर्वबहप्तिजीवा निरन्तरं यावदभार्षः । क्षेत्रं सर्वदिक परमावधिः क्षेत्रनिर्दिष्टः ॥ ५९८ ॥ ॥३१६॥ ANTaook Oora
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy