________________
विशेषा.
॥३१५॥
यो हि योजनसहलायामो महाकायो मत्स्यः, त्रिभिश्च समयैरात्मानं संक्षिपति, स किल प्रयत्नविशेषादतिमूक्ष्मामवगाहनां । कुरुते, नान्यः । अनेन 'किमिति मत्स्योऽतिमहान् गृह्यते, तृतीयसमयसंक्षिप्तश्च ?' इत्येतस्योत्तरमदायि । दूरे च गत्वाऽन्यत्र यद्युत्पद्यते, विग्रहेण च गच्छति, तदा जीवप्रदेशाः किश्चिद्विस्तरं यान्तीत्यवगाहना स्थूलतरा स्यात् , इत्यविग्रहगत्या खशरीरदेश एवोत्पादित इत्येतत् स्वयमेव द्रष्टव्यमिति । 'कीस वा सुहुमो' इत्यादेरुत्तरमाह- 'सण्हयरा इत्यादि' श्लक्ष्णादपि श्लक्ष्णतरस्तावद् भवति । कः ?, पनकः । | कथंभूतः ?, सूक्ष्मः, जघन्यदेहश्च जघन्यावगाहश्चेत्यर्थः । वस्तुतोऽर्थतात्पर्यमाह- 'सुबहु इत्यादि' 'जो जोयणसाहस्सो' इत्यायुक्तप्रकारेण सुबहुविशेषणविशिष्टो गृह्यमाणः पनकजीवः सूक्ष्मतरः सूक्ष्मतमश्च सर्वदेहेभ्यो भवतीति ॥ ५९३ ॥ ५९४ ॥
अथ 'किं त्रिसमयाहारकः ?" इत्यस्योत्तरमाहपेंढम-बिईए अतिसण्हो जमइत्थूलो चउत्थयाईसु । तईयसमयम्मि जोग्गो गहिओ तो तिसमयाहारो ॥५९५॥
यस्मात् प्रथम द्वितीययोः समययोरतिसूक्ष्मो भवति, चतुर्थादिषु चातिस्थूलः संपद्यते, तृतीयसमये तु योग्यः; अतस्त्रिसमयाहारग्रहणमिति ॥ ५९५ ॥ अत्र केषांचिन्मतमुद्भावयन्नाह
केई दो झससमया तईओ पणगत्तणोववायम्मि । अह तिसमओ आहारओ य सुहुमो य पणओ य ॥५९६॥ उववाए चेव तओ जओ जहण्णो न सेससमयेसु । तो किर तदेहसमाणमोहिखित्तं जहणं तु ॥ ५९७ ॥
त्रिसमयाहारकत्वविषये केचनाऽप्याचार्या व्याचक्षते यदुत-द्वौ तावज्झषस्य मत्स्यस्य संबन्धिनावाद्यसमयौ गृह्यते-आयामसंहारमतरकरणलक्षणः प्रथमः, मूचिं तु यत्र करोति स द्वितीयः, तृतीयसमयस्तु तां संक्षिप्य पनकत्वेनोत्पादे भवति । ततश्च त्रयः समया यस्यासौ त्रिसमयः, अविग्रहेणोत्पत्तेराहारकश्च । एवं च सति प्रत्युताऽतिसूक्ष्मश्च पनकश्चायं सिद्धो भवति । तथा च सति "ति
PARMA
JOOOOOD
20PISO
१ क.ख.ग. 'स्यो म' । २ गाथा ५९२ । ३ गाथा ५८९ । . प्रथम-द्वितीययोरतिसूक्ष्मो बदतिस्थूलश्चतुर्थकादिषु । तृतीयसमये योग्यो गृहीतस्ततनिसमयाहारः ॥ ५९५ ॥ ५ केचिद् द्वौ शपसमयी तृतीयः पनकत्वोपपाते । अथ त्रिसमय माहारकश सूक्ष्मन पनका ॥ ५९६ ॥
उपपाद एव सको यतो जघन्यो न शेषसमयेषु । ततः किल तहसमानमवधिक्षेनं जघन्यं तु ॥ ५९७ ॥ ६ क. ग. 'एवं च। ७ गाथा ५८८ ।
॥३१५॥
SHISTORIES
कर
For Peso
Use Only
LOlem.jainelibrary.org