SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ APE बृहद्वत्तिः । PISO भवति । अस्मादुत्पादसमयात् तृतीयसमये यद् देहमानमेतस्य पनकस्य । तत् किम् , इत्याह- 'ओहिक्खित्तं जहन्नं तं ति' तजविशेषा० धन्यमवधेविषयभूतं क्षेत्रम् । किंखरूपम् ?, तज्ज्ञेयद्रव्यभाजनं तस्यावधेर्तेयानि ग्राह्याणि यानि द्रव्याणि तेषां भाजनमाधारभूतम् । एतेन तज्ज्ञेयद्रव्याधारत्वेनैव क्षेत्रमवधेविषय उच्यते, न तु साक्षात् , तस्याऽमूर्तत्वात् , अवधेस्तु मूर्तविषयत्वादिति । एतद्गाथात्रय॥३१४॥ व्याख्यातार्थसंवादि चोक्तं वृदैः "योजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि सूक्ष्मः पनकत्वेनेह स प्रायः ॥ १ ॥ संहृत्य चाद्यसमये स ह्यायामं करोति च प्रतरम् । संख्यातीताख्याङ्गुलविभागबाहल्यमानं तु ॥२॥ स्वकतनुपृथक्त्वमात्र दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥ ३ ॥ संख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथक्त्वदैर्ध्या तृतीयसमये तु संहृत्य ॥ ४ ॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥ ५॥ तावजघन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ॥ ६॥" __ अत्र परः पृच्छति'किं मच्छो अतिमहल्लो किं तिसमयओ व कीस वा सुहुमो । गहिओ कीस व पणओ किंव जहण्णावगाहणओ ?॥५९२॥ 4 किमिति मत्स्योऽतिमहान् गृह्यते ?, किंवा त्रिसमयाहारकः- तृतीये समये निजशरीरदेशोत्पत्तिमान् वा गृह्यते ?, किंवा सूक्ष्मः ?, किमिति वा पनको, जघन्यावगाहनको वा गृहीतः ? इति ॥ ५९२ ॥ अत्रोत्तरमाह मच्छो महल्लकाओ संखित्तो जो य तीहिं समयेहिं । सो किर पयत्तविसेसेण सण्हमोगाहणं कुणइ ॥५९३॥ सण्हयरा सण्यरो सुहुमो पणओ जहण्णदेहो य । सुबहुविसेसविसिट्ठो सण्हयरो सव्वदेहेसु ॥ ५९४ ॥ १ किं मत्स्योऽतिमहान् किं त्रिसमयको वा कस्माद् वा सूक्ष्मः । गृहीतः कस्माद् वा पनकः किंवा जघन्यावगाहनकः ॥ ५९२ ॥ २ मत्स्यो महाकायः संक्षिप्तो यश्च त्रिभिः समयैः । स किल प्रयवविशेषेण सूक्ष्मामवगाहनां कुरुते ॥ ५९३ ॥ लक्षणतरात् लक्ष्णतरः सूक्ष्मः पनको जघन्यदेहश्च । सुबहुविशेषविशिष्टः सूक्ष्मतरः सर्वदेवेषु ॥ ५९४ ॥ ॥३१४॥ Ja Edu i nematian For Personal and Private Use Only eww.jaineitrary.org
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy