SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥३१३॥ यावती यावत्पमाणा त्रीन् समयानाहारयतीति त्रिसमयाहारकस्तस्य, सूक्ष्मनामकर्मोदयात् सूक्ष्मस्तस्य, पनकश्चासौ जीवश्च । पनकजीवो वनस्पतिविशेषस्तस्य , अवगाहन्ते यस्यां प्राणिनः साऽवगाहना तनुरित्यर्थः, जघन्या सर्वस्तोका, अवधेः क्षेत्रमवधिक्षेत्रं जघन्यं सर्वस्तोकम् । तुशब्दोऽवधारणे । तस्य चैवं प्रयोगः- अवधेविषयभूतं क्षेत्रं जघन्यमेतावदेव ॥ इति नियुक्तिगाथासंक्षेपार्थः।।५८८॥ अथ सांप्रदायिकार्थव्याख्यानपरं भाष्यम्'जो जोयणसाहस्सो मच्छो नियए सरीरदेसम्मि । उववजंतो पढमे समए संखिबइ आयामं ॥ ५८९ ॥ पयरमसंखिजंगुलभागतणुं मच्छदेहविच्छिण्णं । बीए, तईए सूई संखिविउं होइ तो पणओ ॥ ५९० ॥ उबवायाओ तईए समए जं देहमाणमेयस्स । तण्णेयदव्वभायणमोहिक्खित्तं जहन्नं तं ॥ ५९१ ॥ यो मत्स्यो योजनसहस्रो योजनसहस्रायामः स्वदेहस्यैव बाह्यदेश उत्पद्यमानः प्रथमे समये आयाम संक्षिपति 'तं च संक्षिपन् प्रतरं करोति' इति शेषः । कथंभूतम् ?, इत्याह- ' असंखेजंगुलभागतणुं ति' बोहल्येनाङ्गुलासंख्येयभागमूक्ष्ममित्यर्थः । पुनरपि' तत् कथंभूतम् , इत्याह- मत्स्यदेहविस्तीर्ण शरीरान्तःसंबद्धत्वादूधिस्तिर्यक् च यावान् मत्स्यदेहविस्तरस्तावांस्तज्जीवप्रदेशप्रतरस्यापीत्यर्थः। एवं चायामतो विष्कम्भतश्च मत्स्यशरीरपृथुत्वतुल्योऽङ्गुलासंख्येयभागबाहल्यश्चार्य प्रतरो भवतीति प्रथमसमयव्यापारः । ननु च प्रथमे समये आयाम संक्षिपति, इत्येतदेवोक्तं, यथोक्तप्रतरकरणं तु कुतो लभ्यते , इति चेत् । उच्यते- अनन्तरं द्वितीयसमये तत्संक्षेपस्य भणनात् , तस्य च करणपूर्वकत्वादिति । 'बीए' इति 'संखिविउं' इत्यत्रापि संबध्यते । ततो द्वितीयसमये तं पतरमुभयतः संक्षिप्याऽङ्गुलासंख्येयभागवाहल्यां मत्स्यशरीरपृथुत्वायामां मूचिं 'करोति' इत्यध्याहारः । अत्राप्यनन्तरतृतीयसमये सूचिसंक्षेपाभिधानात् तस्य च तस्करणपूर्वकत्वात् मूचिकरणमध्याहियते । 'तईए ति' ततस्तृतीयसमय एतामपि सूर्षि संक्षिप्याङ्गलासंख्येयभागमात्रावगाहनो भूत्वा निर्जीर्णमत्स्यभवायुरुदीर्णपरभवायुश्चाऽविग्रहगत्या मत्स्यशरीरस्यैवैकदेशे पनका मूक्ष्मवनस्पतिजीवविशेषो १ यो योजनसहस्रो मत्स्यो निजके शरीरदेशे । उपपद्यमानः प्रथमे समये संक्षिपत्यायामम् ॥ ५८९॥ मतरमसंख्येयाकुलभागतनुं मत्स्यदेहविस्तीर्णम् । द्वितीये, तृतीये सूचि संक्षिप्य भवति ततः पगकः ॥ ५९.।। उपपादात् तृतीये समये यद् देहमानमेतस्व । तज्ज्ञेबद्रव्यभाजनमदधिक्षेत्रं जघन्य तत् ॥ ५९१ ।। १ घ.छ. 'बाहुल्ये'। ३ घ.छ. "पि क'। ४ क.ख.ग. 'ये ता'। RA ॥३१३॥ XH o m.jaineltranama
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy