________________
बृहदत्तिः ।
विशेषा. ॥३१२॥
Parera
CHIOSTRO
कालावस्थितानि द्रव्याणि पश्यत्यसौ, इत्युच्यते ?, कि क्षेत्र-कालावेव साक्षादेव न पश्यति, इत्याशङ्क्याह-न तु पश्यति क्षेत्र-कालावसौ, तयोरमूर्तत्वात् । अवधेश्च मूर्तविषयत्वात् । वर्तनारूपं तु कालं पश्येत् , द्रव्यपर्यायत्वात् तस्येति ॥ ५८५ ॥
अथ भव-भावावधी निरूपयितुमाह. 'जम्मि भवे उप्पजइ वट्टइ पेच्छइ व जं भवोही सो । एमेव य भावोही वट्टइ य तओ खओवसमे ॥५८६॥
यस्मिन् नारकादिभवेऽवधिरवश्यमुत्पद्यते, यत्र वा भव उत्पन्नोऽसाववधिर्वतते नारकादिभव एव, यं वा स्वकीयं परकीयं वाऽतीतमनागतं वा, एकादिकमसंख्याततमान्तं भवं पश्यति स भवावधिः, भवे आधारभूते विषयभूते वाऽवधिर्भवावधिरिति कृत्वा। एवमेव भावावधिरपि वक्तव्यः- यस्मिन् क्षायोपशमिके भावेऽवधिरुत्पद्यते, यत्र वा क्षायोपशमिक एव भावे उत्पन्नोऽसौ वर्तते, यं वौदयिकादिभावपश्चकान्यतरभावं, सर्वान् वा तान् पश्यति स भावावधिरित्यर्थः, भावेऽवधिर्भावावधिरिति कृत्वा । सत्ववधिःक भावे वर्तते ? इति कथ्यताम् , इत्याह-वर्तते च तकोऽसौ अवधिः क्षायोपशमिके भाव इति । तदेवं प्रथमव्याख्याने द्वारतया समायातस्यावधेर्नामादिनिक्षेपोऽयमुक्तः, द्वितीयव्याख्याने तु विशेषणतया समायातस्याऽस्यैषोऽभिहित इति ।। ५८६ ॥
अथाऽवैधेः क्षेत्रपरिमाणमभिधित्सुर्भाष्यकार एवं प्रस्तावनामाह
ओहिस्सं खेत्तमाणं जहण्णमुक्कोस्स-मज्झिमं तत्थ । पाएण तदाईए जं तेण जहन्नयं वोच्छं ॥५८७॥
अवधेर्यद् विषयभूतं क्षेत्रं तस्य मानं प्रमाणं जघन्यम् , उत्कृष्टं मध्यमं च भवति । तत्र पायो यद् यस्मादादौ प्रथमतस्तज्जघन्यं क्षेत्रं भवति, जघन्यक्षेत्रविषयोऽवधिः प्रायेणाऽऽदौ समुत्पद्यते, तेन कारणेन जघन्यमेव क्षेत्रमाणमादौ वक्ष्ये ॥ इति गाथाषट्कार्थः ।। ५८७ ॥
यथाप्रतिज्ञातमेवाह. जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहण्णा ओहीखेत्तं जहण्णं तु ॥५८८॥
, यस्मिन् भव उत्पद्यते वर्तते प्रेक्षते वा यद् भवावधिः सः । एवमेव च भावावधिर्वर्तते च सकः क्षयोपशमे ॥ ५४६ ॥ २ घ. छ. ' नन्वब' । ३ क. ग. 'वधिक्षेत्रप्रमा' । ४ अवधेः क्षेत्रमानं जघन्यमुत्कृष्टं मध्यमं तत्र । प्रायेण तदादी यत् तेन जघन्यक वक्ष्ये ॥ ५८७ ॥ ५ यावती त्रिसमयाहारकस्य सूक्ष्मस्य पनकजीवस्य । अवगाहना जघन्या अवधिक्षेत्रं जघन्यं तु ॥ ५८८ ॥
PRODER
॥३१२॥
Jan Educ
a
tio
For Personal and Private Use Only