________________
विशेषा० ॥३११॥
पूर्व मर्यादा-ऽक्षादाववाधिज्ञानासंबद्धे अपि नाम-स्थापने प्रोक्त, अत्र त्वभिधान-द्रव्याद्याकारयोरवधिज्ञानसंबद्धयोस्ते अभिहिते इति । विशेष इति ॥ ५८३ ॥
बृहदत्तिः । अथ द्रव्यावधिरुच्यते, स च द्विविधः- आगमतः, नोआगमतश्च । तत्रागमतोऽवधिपदार्थज्ञस्तत्र चानुपयुक्तः " अनुपयोगो द्रव्यम्" इतिवचनाद् द्रव्यावधिः । नोआगमतो शरीरद्रव्यावधिः, भव्यशरीरद्रव्यावधिश्च । शरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यावधि भाष्यकारः स्वयमेवाह
देवोही उप्पज्जइ जत्थ तओ जं च पासए तेणं । जं वोवगारि दव्वं देहाइ तदुब्भवे होइ॥ ५८४ ॥
तद् द्रव्यं द्रव्यावधिर्भण्यते । यत्र किम् ?, इत्याह-'उप्पज्जइ जत्थ तओत्ति' यत्र विपुलाचलशिलादौ कायोत्सर्गादिस्थितस्य साध्वादेस्तकोऽसौ अबधिरुत्पद्यते । यद् वा भू-भूधरादि रूपि द्रव्यं तेनाऽवधिना साध्वादिः पश्यति तद् द्रव्यावधिरुच्यते । यद् वा तस्याऽवधेरुद्भव उत्पत्ती सहकारित्वेनोपकारकं देहादिद्रव्यं तत् सर्व द्रव्यावधिरभिधीयते । इदमुक्तं भवति- इहाधारभूतशिलादिद्रव्याण्युत्पद्यमानस्यावधेः सहकारिकारणानि भवन्ति । कारणं च
" भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतना-ऽचेतनं गदितम् ॥ १॥" इति वचनाद् द्रव्यमुच्यते । अतोऽन्यान्यपि तपः-संयमादीन्यवध्युत्पत्तिकारणानि द्रव्यावधित्वेनाऽवसेयानीति ॥ ५८४ ॥ अथ क्षेत्र-कालावधी पाह
खेत्ते जत्थुप्पजइ कहिजए पेच्छए व दवाइं । एवंचेव य काले न उ पेच्छइ खित्त-काले सो ॥ ५८५॥
यत्र नगरोद्यानादिक्षेत्रे स्थितस्यावधिरुत्पद्यते स क्षेत्रेऽधिकरणभूतेऽवधिः क्षेत्रावधिरुच्यते. क्षेत्रस्याधारत्वेन प्राधान्यविवक्षया क्षेत्रेण व्यपदेश इति भावः । यत्र वा क्षेत्रेऽवधिः कथ्यते प्रज्ञापकेन स्वरूपतः प्ररूप्यते, यत्र वा क्षेत्रे व्यवस्थितानि द्रव्याण्यवधिज्ञानी प्रेक्षते तत्प्राधान्यविवक्षया तेन व्यपदेशात् क्षेत्रावधिरभिधीयते । एवं यत्र प्रथमपौरुष्यादौ कालेऽवधिरुत्पद्यते, यत्र वा प्रज्ञापकेन प्ररूप्यते, यत्कालविशिष्टानि वा द्रव्याण्यवधिज्ञानी पश्यति, तत्प्राधान्यविवक्षया तेन व्यपदेशात् स कालावधिरुच्यते । ननु किमिति 'क्षेत्र
॥३१॥ १ च्यावधिरुत्पद्यते यत्र सकश्च यच्च पश्यति तेन । यद्दोपकारि द्रव्यं देहादि तदुद्भवे भवति ॥ ५८४ ॥ . क्षेत्रे वनोत्पद्यते कथ्यते प्रेक्षते वा व्याणि । एवमेव च काले न तु प्रेक्षते क्षेत्र-काकी सः ॥ ५८५॥
Jan Education Internat
For Don Pe Use Only
wMR.Jainelibrary.oro