SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ विशेषा. हद्दतिः । ॥३१॥ प्रकृतीनामेव चतुर्दशविधो निक्षेप उक्तः । अविरुदं चैतदपि व्याख्यानम् । अत्र च पक्षेत्रधिशब्दः सर्वत्र विशेषणतयैव योजनीयःअवधेः क्षेत्रपरिमाणम् , अवधेः संस्थानमित्यादि ।। इति गाथाद्वयार्थः ।। ५७९ ।। ५८०॥ अथ प्रथमव्याख्याभिमताऽऽद्यद्वारव्याचिख्यासयां पाहनाम ठवणा दविए खत्ते काले भवे य भावे य । एसो खलु ओहिस्सा निक्लेवो होइ सत्तविहो ॥ ५८१ ॥ नाम-स्थापना-द्रव्य-क्षेत्र-काल-भव-भावभेदादेष खल्ववधिनिक्षेपः सप्तविधो भवति ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। ५८१॥ अथ विस्तरार्थ विभणिपुर्भाष्यकारः माहअवहि त्ति जस्स नाम जह मज्जायाऽवहि त्ति लोयम्मि । ठवणावहिनिक्खेवो होइ जह क्खाइविन्नासो॥५८२॥ यस्य जीवादिपदार्थस्याऽवधिरिति नाम क्रियते, असौ नाम्ना नाममात्रेणावधिर्नामावधिरुच्यते, यथा लोके मर्यादाऽवधिरभिधीयते । स्थापनया स्थापनमात्रेणावधिः स्थापनावधिर्भवति । कोऽयम् ?, इत्याह- निक्षेपो विन्यासोऽवधेरेव 'वस्त्वन्तरे' इति गम्यते । क यथा ?, इत्याह- यथाऽक्षादौ विन्यासो निक्षेपोऽवधिरक्षादिविन्यास इति ॥ ५८२ ॥ प्रकारान्तरेण नाम-स्थापनावधी पाह_ अहवा नामं तस्सेव जमभिहाणं सपजओ तस्स । ठवणागारविसेसो तदव्व-खेत्त-सामीणं ॥ ५८३ ॥ अथवा 'नामं ति' नामावधिरुच्यते । यत् किम् ?, इत्याह- तस्यैव प्रकृतस्यावधिज्ञानस्य यत् ' अवधिः' इतिवर्णावलीमात्ररूपमभिधानं संज्ञेति, नामैवावधिर्नामावधिरिति कृत्वा । तच्चावधिरित्यभिधानं तस्याऽवधिज्ञानस्य वचनरूपः स्वपर्याय इति मन्तव्यम् । स्थापनावधिस्त्वाकारविशेषो भण्यते । केषाम् ?, इत्याह- तस्यावधिज्ञानस्य यद् द्रव्यं विषयभूतं भू-भूधरादि, क्षेत्रं तु भरतादि, स्वामी त्वाधारभूतसाध्वादिः, एतेषामाकारविशेषः स्थापनाऽवधिः, विषय-विषयिभावादिसंवन्धित्वेनैतेषामाकारेऽवधिः स्थाप्यत इति भावः। १५. छ. 'याह' । ३ नाम स्थापना द्रव्यं क्षेत्र कालो भवञ्च भावश्च । एष खल्ववधेनिक्षेपो भवति सप्तविधः ॥ ५८१ ॥ ३ भवधिरिति यस्य नाम यथा मर्यादाऽवधिरिति लोके । स्थापनावधिनिक्षेपो भवति यथाऽक्षादिविन्यासः ॥ ५८२ ॥ अथवा नाम तस्यैव यदभिधानं स्वपर्ययस्तस्य । स्थापनाकारविशेषस्तद्र्व्य-क्षेत्र-स्वामिनाम् ॥ ५३॥ ॥३१०॥ JonEdumments For Personal and Use Only
SR No.600163
Book TitleVisheshavashyak Bhashya Part 02
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy