________________
विशेषा०
॥३०९॥
कामाला
इहावध्यादीनि गतिपर्यन्तानि चतुर्दश द्वाराणि, ऋद्धिस्तु चशब्दसमुच्चितत्वात् पञ्चदशी चर्तुदशविधनिक्षेपस्योपरिष्टात् पश्चाद् वक्ष्यते । तत्रावधिर्नाम-स्थापनाभेदभिन्नो वक्तव्यः। तथा 'अर्थवशाद् विभक्तिपरिणामः' इत्यवधेर्जघन्य-मध्यमो-त्कृष्टभेदभिन्न क्षेत्रपरिमाणं वक्तव्यम् । तथा, अवधेः संस्थानं वाच्यम् । तथा, अनुगमनशील आनुगामिकोऽवधिः सपतिपक्षो वाच्यः । तथा, द्रव्यादिषु कियन्तं कालमप्रतिपतितः सन्नुपयोगतो लब्धितश्चाऽऽस्ते ?, इत्येवमवस्थितोऽवधिर्वक्तव्यः। तथा, वर्धमानतया हीयमानतया च चलोsनवस्थितोऽवधिर्वक्तव्यः । तथा, तीवो मन्दो मध्यमश्चावधिर्वक्तव्यः । तत्र तीव्रो विशुद्धो, मन्दोऽविशुद्धः, इतरस्तूभयप्रकृतिः । तथा, द्रव्याद्यपेक्षयककाले प्रतिपातो-त्पादाववधेर्वक्तव्यौ । तथा, ज्ञान-दर्शन-विभङ्गा वाच्या:-किमत्र ज्ञानं, किं वा दर्शनं , को वा विभङ्गः परस्परतश्चामीषामल्प-बहुत्वं चिन्तनीयम् , ततश्च ज्ञान-दर्शन-विभङ्गारत्रयम् । तथा 'देसे त्ति' कस्य देशविषयः सर्वविषयो वाऽवधिर्भवतीति निरूपणीयम् । तथा, संबद्धा-संबद्ध-संख्येया-ऽसंख्येया-ऽपान्तरालक्षेत्रद्वारेण क्षेत्रविषयोऽवधिर्वक्तव्यः । गतिरिति च । तत्र इतिशब्द आद्यर्थः । ततश्च 'गइ-इंदिए काये' इत्यादिद्वारकलापोऽवधिर्वक्तव्यः । तथा, प्राप्त_नुयोगश्च व्याख्यानरूपः कार्यः । एवमनेन प्रकारेणैता अनन्तरोक्ताः प्रतिपत्तयः प्रतिपादनानि परिच्छित्तय इत्यर्थः । ततश्चावधिप्रकृतय एव प्रतिपत्तिहेतुत्वात् प्रतिपत्तय उच्यन्ते ।। इति नियुक्तिरूपकद्वयपिण्डार्थः ॥ ५७७ ॥ ५७८ ।।
कथं पुनरस्यायं निक्षेपश्चतुर्दशविधः ?, इत्याह भाष्यकारःगैइपजंता चोद्दस रिद्धी चसमुच्चिय त्ति पंचदसी । ओहिपयं पि व मोत्तुं सेयरमणुगामियं काउं॥ ५७९ ॥ केई चोदसभेयं भणंति ओहि त्ति न पयडी जम्हा । पयडी न य निक्खेवो जं भणिओ चोदसविहो त्ति ॥५८०॥
अवध्याद्या गतिपर्यन्ताश्चतुर्दश निक्षेपाः । ऋद्धिस्तु चतुर्दशविधनिक्षेपमध्ये न भवति । किं तर्हि ?, 'इड्ढीपत्ते य वोच्छामि' इत्यत्र चसमुच्चितत्वात् पृथग्भूता पञ्चदशी। अथवा 'ओही खेत्त-परिमाणे' इत्यत्राधमवधिपदं मुक्त्वाऽनुगमनशीलमनुगामुक सेतरं सपतिपक्ष कृत्वा- अनुगामुकमननुगामुकसहितमर्थतो गमयित्वेत्यर्थः, केचनाप्याचार्याश्चतुर्दशविधनिक्षेपं पूरयन्ति । किमिति त एवं व्याख्यानयन्ति ?, इत्याह- 'ओहीत्यादि' अवधिर्यस्माद् न प्रकृतिः, किन्त्ववधेरेवेह प्रकृतयो विचारयितुं प्रक्रान्ताः । कुतः, इत्याह- यतः १ गाथा ४०९ । २ गतिपर्यन्ताश्चतुर्दश ऋद्धिश्चसमुचितेति पञ्चदशी। अवधिपदमपि वा मोक्तुं खेतरमनुगामुकं कृत्वा ॥ ५७९ ॥
केचिच्चतुवंशभेदं भणन्ति अवधिरिति न प्रकृतिर्यस्मात् । प्रकृप्तिनं च निक्षेपो यद् भणितश्चतुर्दशविध इति ॥ ५८० ॥ गाथा ५६९ । ४ गाथा ५७७ ।
॥३०॥
For Pesona Pe User