Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 121
________________ विशेषा ० ॥३१९॥ Jain Educationa Internatio नन्वेकैकाकाशप्रदेशावगाढजीवधन प्रतर श्रेण्याक्रान्ताकाशप्रदेशानां संख्यारूपं गणितं तुल्यमेव । तथा, असंख्येयाकाशप्रदेशा वगाढजीवधन - प्रतर- श्रेण्याक्रान्ताकाशदेशानामपि गणितं स्वस्थाने परस्परं तुल्यमेव तथाहि - यावत एकैकाकाशप्रदेशावगाहिनां जीवानां बृहद्वृत्तिः । घन आकाशप्रदेशानाक्रामति, प्रतरोऽपि तेषां तावत एव तानाक्रामति, सूचिरपि तेषां तावत एव तान् स्पृशति, संवृतप्रसारितनेत्रपट्टाक्रान्ताकाशप्रदेशवदिति । एवमसंख्येयाकाशप्रदेशावगाढजीवधन प्रतर- श्रेण्याक्रान्ताकाशप्रदेशानामपि स्वस्थाने गणिततुल्यता भावनीयेति । अतोऽवगाहभेदद्वयभिन्नो घन एवाऽस्तु, प्रतरो वा, सूचिर्वेति षोढा तु विकल्पना षड्भेदानां कल्पनं किमिति क्रियते १ न युक्तेयमित्यभिप्रायः । अत्र सूरिराह - भण्यत उत्तरम् । किम् १, इत्याह- 'पुरिसपरिक्खेवओ भेउ त्ति' अस्त्यस्याः षड्धिकल्पनाया भेदः । कथम् १, इत्याह- पुरुषपरिक्षेपतः । इदमुक्तं भवति- नेह घनाद्याक्रान्ताकाशप्रदेशानां संख्या समत्व- विषयत्वे चिन्त्येते । किं तर्हि १, घनादीनां मध्याद्यः कश्चिद् रचनाविशेषोऽवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणो बहुतरं क्षेत्रं स्पृशति, स एवेह ग्राह्यः । एवं सत्यस्त्यमीषां भेदः, तथाहि एकैकप्रदेशावगाढजीवघनो भ्रम्यमाणो यावत् क्षेत्रं स्पृशति, तस्मादसंख्येयप्रदेशावगाढजीवधनोऽसंख्येयगुणं स्पृशति, ततोऽप्येकैकपदेशावगाढजीवप्रतरोऽसंख्येयगुणं, तस्मादप्य संख्येयप्रदेशावगाढजन्तुप्रतरोऽसंख्येयगुणम्, ततोऽप्येकैकपदेशावगाढजीवसूचिरसंख्येयगुणं, तस्मादप्यसंख्येयाकाशप्रदेशावगाढैकैकानिजविसूचिरवधिज्ञानिनः सर्वासु दिक्षु भ्रम्यमाणाऽसंख्येयगुणं क्षेत्रं स्पृशति, तच्चाऽलोके लोकप्रमाणान्यसंख्येयाकाशखण्डानि अत एतावदेवाऽवधेरुत्कृष्टं क्षेत्रं विषयं इति ॥ ६०२ ॥ उक्तमेवार्थ भाष्यकारेः स्वयमेवाह निययावगाहणागणिजीवसरीरावली समंतेणं । भामिज्जइ ओहिन्नाणिदेहपज्जतओ सा य ॥ ६०३॥ अइगंतूण अलोगं लोगागासप्पमाणमेत्ताई । ठाइ असंखेज्जाई इदमोहिखेत्तमुक्कासं ॥ ६०४ ॥ निजका आत्मीया एकैकस्याऽसंख्येयप्रदेशात्मिकाऽवगाहना येषां तानि तथा, तानि च तानि अग्निजीवशरीराणि च तेषामावली पक्तिः सूचिरवधिज्ञानिनो देहपर्यन्तात् समन्तात् सर्वासु दिक्षु बुद्ध्या भ्राम्यते । सा चाऽलोके 'लोकप्रमाणमात्राण्यसंख्येया १ क. ख. ग. 'र आह' । २ निजकावगाहनाग्निजीवशरीरावली समन्तात् । भ्राम्यतेऽवधिज्ञानि देहपर्यन्ततः सा च ॥ ६०३ ॥ अतिगत्या लोकं लोकाकाशप्रमाणमान्त्राणि । तिष्ठत्यसंख्येयानि इदमवधिक्षेत्रमुत्कृष्टम् ॥ ६०४ ॥ For Personal and Private Use Only ॥३१९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202