Book Title: Visheshavashyak Bhashya Part 02
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥३०५॥
Jain Educationa Internatio
अथ गुरुगतं व्याख्यानविधिमाह
खपढम बीओ निज्जुत्तिमीसओ भणिओ । तईओ य निरवसेसो एस विही होइ अणुओगे॥ ५६६ ॥ सूत्रस्यार्थो यत्रासौ सूत्रार्थः । खलुरवधारणे । ततश्च सूत्रार्थ एव सूत्रार्थमात्रप्रतिपादनपर एव प्रथमः प्रथमवारायामनुयोगो गुरुणा कर्तव्यः । द्वितीयस्तु द्वितीयवारायां सूत्रस्पर्शक नियुक्तिमिश्रकः कर्तव्यतया भणितस्तीर्थकर - गणधरैः । तृतीयस्तु तृतीयवारायां प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषो भणितः । एष उक्तलक्षणो विधानं विधिर्भवति । क १, इत्याह- सूत्रस्य निजेनाभिधेयेन सार्धमनुकूलो योगोऽनुयोगः सूत्रस्यार्थान्वाख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषये ।। इति नियुक्तिगाथाद्वयार्थः ॥ ५६६ ॥ ॥ तदेवं श्रुतज्ञानस्य ग्रहण- श्रवणव्याख्यानविधिः प्रतिपादितः । तत्प्रतिपादिते च श्रुतज्ञानं समाप्तमिति ।। अथ पूर्वोदितसंवन्धायातमवधिज्ञानमभिधित्सुः प्रस्तावनामाह
भैणियं परोक्खमहुणा पञ्च्चक्खं तं च तिविहमोहाई । पुव्वोइयसंबंधं तत्थावहिमाइओ वोच्छं ॥ ५६७ ॥ मति श्रुतलक्षणं परोक्षज्ञानं तावद् भणितं प्रतिपादितम् । इदानीं प्रत्यक्षमभिधानीयम्, तच्चाऽवधि-मनः पर्याय- केवलभेदात् त्रिविधम् । तत्रादितः प्रथमं पूर्वोदितसंबन्धमवधिज्ञानं वक्ष्येऽभिधास्य इति ।। ५६७ ।।
तत्रावधिभेदास्तावत् संख्यातीता भवन्तीति दर्शयति
संखाईयाओ खलु ओहीनाणस्स सव्वपयडीओ । काई भवपच्चइया खओवसमियाओ काओ वि ॥५६८॥ संख्यानं संख्या तामतीता अतिक्रान्ताः संख्यातीता असंख्येया इत्यर्थः, प्रकृतयो भेदा अंशाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः । ततश्च पूर्वोक्तशब्दार्थस्याऽवधिज्ञानस्य क्षेत्रकालौ विषयभूतावाश्रित्य सर्वा अप्यसंख्येयाः प्रकृतयो भेदा भवन्ति, तथाहि - अवधेर्जघन्यतोsङ्गुला संख्येयभागादारभ्य प्रदेशोत्तरया वृद्ध्योत्कृष्टतोऽलोकेऽपि लोकप्रमाणान्यसंख्येयखण्डानि क्षेत्रविषय इति वक्ष्यते । कालोऽपि जघ
२ क.ख.ग. 'मीसिओ'।
३९
१ सूत्रार्थः खलु प्रथमो द्वितीयो नियुक्तिमिश्रको भणितः । तृतीयश्च निरवशेष एष विधिर्भवत्यनुयोगे ।। ५६६ ३ भणितं परोक्षमधुना प्रत्यक्षं तच्च त्रिविधमवध्यादि । पूर्वोदितसंबन्धं तत्रावधिमादितो वक्ष्ये ॥ ५६७ ॥
४ संख्यातीताः खल्ववधिज्ञानस्य सर्वप्रकृतयः । काश्चिद् भवप्रत्ययिताः क्षायोपशमिक्यः का अपि ॥ ५६८ ॥ ५ क.ग. 'तयशा भेदाः स ' ।
For Personal and Private Use Only
बृहद्वृत्तिः
॥३०५||
www.jainelibrary.org
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202